SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २२८ स्वोपज्ञलघुवृत्तिविभूषितं रुदादेः पञ्चत: परस्य व्यञ्जनादे: शितोऽया देरादिरिट् स्यात् । रोदिति , स्वपिति , प्राणिति , श्वसिति , जक्षिति । अय इति किम् ? रुद्यात् । * शित इति किम् ? रोत्स्यति * ॥८८|| दि-स्योरीट् ।४।४।८९॥ रुत्पञ्चकात् दिस्योः शितोरादिरीट् स्यात् । अरोदीत् , अरोदीः ।।८९।। - अदश्वाऽट् ।४।४।९०॥ अत्ते रुत्पञ्चकाच दिस्योरादिरट् स्यात् । आदत् , आदः ; अरोदत् , अरोदः ॥९ ॥ संपरेः कृगः स्सट् ।४।४।९१॥ आभ्यां परस्य कृग आदिः स्सट् स्यात् । संस्करोति कन्याम् , परिष्करोति ॥९ ॥ उपाद् भूषा-समवाय-प्रतियत्न-विकार-वाक्याध्याहारे ।४।४।९२॥ उपात् परस्य कृगो भूषादिष्वर्थेष्वादिः स्सट् स्यात् । कन्यामुपस्करोति , तत्र न उपस्कृतम् , एधोदकमुपस्कुरुते , उपस्कृतं भुङ्क्ते , सोपस्कारं सूत्रम् ।।९२।। किरो लवने।४।४।९३॥ उपात् किरते: स्सडादिः स्यात् , लवनविषयार्थश्चेत् । उपस्कीर्य मद्रका लुनन्ति । लवन इति किम् ? उपकिरति पुष्पम् ।।९३।। प्रतेश्च वधे।४।४।९४॥ प्रतेरुपाच्च किरतेहिँसायां विषयेऽर्थे वा स्सडादिः स्यात् । प्रतिस्कीर्णम् उपस्कीर्णं वा ह ते वृषल भूयात् , प्रतिचस्करे नखैः । वध इति किम् ? प्रतिकीर्णं बीजम् ||९४|| अपाच्चतुष्पात्-पक्षि-शुनि हृष्टा-ऽन्ना-ऽऽश्रयाऽर्थे ।४।४।९५॥ अपात् किरते: चतुष्पदि पक्षिणि शुनि च कर्तरि यथासङ्ख्यं हृष्टेऽन्नार्थिनि आश्रयार्थिनि स्सडादि: स्यात् । अपस्किरते गौर्हष्टः , कुक्कुटो भक्ष्यार्थी , आश्रयार्थी १. यकारादेरादि P3 पासं१ विना ॥ २. प्राणिति श्वसिति जक्षिति J3 विना नास्ति ।। ३. अयिति पा१,४ विना । अयीति पार J3 || * * पा१, P2, P3 सं, J3 विना नास्ति ॥४. शित इति किम् ? स्वप्ता P3सं । शित इति किम् ? स्वप्स्यति पा१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy