SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २२७ एभ्यः परस्य थव आदिरिट् स्यात् । आरिथ , ववरिथ , संविव्ययिथ , आदिथ ।।८०॥ स्क्रसृ-वृ-भृ-स्तु-द्रु-श्रु-स्रोर्व्यञ्जनादेः परोक्षायाः ।४।४।८१॥ स्कृग: स्रादिवर्जेभ्यश्च सर्वधातुभ्य: परस्या: परोक्षाया: व्यञ्जनादेरादिरिट् स्यात् । संचस्करिव , ददिव , चिच्यिवहे । स्क्रिति किम् ? चकृव । स्रादिवर्जनं किम् ? ससृव ; ववृव , ववृवहे ; बभर्थ , तुष्टोथ , दुद्रोथ , शुश्रोथ , सुस्रोथ ॥८१| घसेकस्वराऽऽतः कसोः ।४।४।८२॥ घसेरेकस्वराद् आदन्ताच्च धातोः परस्य कसो: परोक्षाया आदिरिट् स्यात् । जक्षिवान् , आदिवान् , ययिवान् । परोक्षाया इत्येव-विद्वान् ।।८२|| ___ गम-हन-विद्ल-विश-दृशो वा ।४।४।८३॥ एभ्य: परस्य कसोरादिरिट् वा स्यात् । जग्मिवान् , जगन्वान् ; जन्निवान् , जघन्वान् ; विविदिवान् ; विविद्वान् , विविशिवान् , विविश्वान् ; ददृशिवान् , ददृश्वान् ।।८३।। सिचोऽओः।४।४।८॥ अओ: सिच आदिरिट् स्यात् । आञ्जीत् ।।८४।। धूग्-सु-स्तोः परस्मै ।४।४।८५॥ एभ्य: परस्मैपदे सिच आदिरिट् स्यात् । अधावीत् , असावीत् , अस्तावीत् । परस्मै इति किम् ? अधोष्ट ।।८५।। यमि-रमि-नम्यातः सोऽन्तश्च ।४।४।८६॥ एभ्य आदन्तेभ्यश्च परस्मैपदे सिच आदिरिट् स्यात् , एषां च सन्तः । अयंसीत् , व्यरंसीत् , अनंसीत् , अयासिष्टाम् ।।८६।। ईशीडः से-ध्वे-स्व-ध्वमोः ।४।४।८७॥ आभ्यां वर्तमानासे-ध्वयोः पञ्चमीस्व-ध्वमोश्चादिरिट् स्यात् । ईशिषे , ईशिध्वे , ईशिष्व , ईशिध्वम् ; ईडिषे , ईडिध्वे , ईडिष्व , ईडिध्वम् ।।८७।। रुत्पश्चकाच्छिदयः ।४।४।८८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy