SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । एभि: सप्तम्यन्तं समासस्तत्पुरुषश्च स्यात् , पूजायां गम्यायाम् । समरसिंहः , भूमिवासवः ।।८९|| काकाद्यैः क्षेपे ।३।११९०॥ एभिः सप्तम्यन्तं निन्दायां गम्यायां समासस्तत्पुरुषश्च स्यात् । तीर्थकाक: , तीर्थश्वा । क्षेप इति किम् ? तीर्थे काकोऽस्ति ।।९०॥ पात्रेसमितेत्यादयः ।३।११९१॥ एते सप्तमीत्पुरुषाः क्षेपे निपात्यन्ते । पात्रेसमिता: , गेहेशूरः ।।११।। क्तेन ।३।११९२॥ सप्तम्यन्तं क्तान्तेन क्षेपे समासस्तत्पुरुषश्च स्यात् । भस्मनिहुतम् , अवतप्तेनकुलस्थितम् ।।९२॥ तत्राहोरात्रांशम् ।३।१।९३॥ तत्रेति सप्तम्यन्तम् , अहरवयवा रात्र्यवयवाश्च सप्तम्यन्ता: क्तान्तेन समासस्तत्पुरुषश्च स्यात् । तत्रकृतम् , पूर्वाह्णकृतम् , पूर्वरात्रकृतम् । तत्राहोरात्रांशमिति किम् ? घटे कृतम् । अहोरात्रग्रहणं किम् ? शुक्लपक्षे कृतम् । अंशमिति किम् ? अह्नि भुक्तम् , रात्रौ नृत्तम् ।।९३।। नाम्नि ।३।१।९४॥ सप्तम्यन्तं नाम्ना संज्ञाविषये समासस्तत्पुरुषश्च स्यात् । अरण्येतिलका: , अरण्येमाषका: ॥९४।। कृयेनाऽऽवश्यके ।३।१।९५॥ सप्तम्यन्तं नाम य एच्चात: [५/१/२८] इति यान्तेनाऽवश्यम्भावे गम्ये समासस्तत्पुरुषश्च स्यात् । मासदेयम् । कृदिति किम् ? मासे पित्र्यम् ।।९५|| ____ विशेषणं विशेष्येणैकार्थं कर्मधारयश्च ।३।११९६॥ भिन्नप्रवृत्तिनिमित्तयो: शब्दयोरेकस्मिन्नर्थे वृत्तिरैकार्थ्यम् , तद् विशेषणवाचि विशेष्यवाचिनैकार्थे समासस्तत्पुरुष: कर्मधारयश्च स्यात्। नीलोत्पलम् , खञ्जकुण्ट: , कुण्टखञ्जः । एकार्थमिति किम् ? वृद्धस्योक्षा वृद्धोक्षा ।।९६।। पूर्वकालैक-सर्व-जरत्-पुराण-नव-केवलम् ।३।१।९७॥ १. गम्यायां खं१ विना नास्ति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy