SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ११२ स्वोपज्ञलघुवृत्तिविभूषितं कर्तरि या षष्ठी तदन्तमकाऽन्तेन समासो न स्यात् । तंव शायिका । कर्तरीति किम् ? इक्षुभक्षिका ।।८२|| कर्मजा तृचा च ।३।११८३॥ कर्मणि या षष्ठी तदन्तं कर्तृविहिताऽकान्तेन तृजन्तेन च न समास: स्यात् । भक्तस्य भोजक: , अपां स्रष्टा । कर्मजेति किम् ? गुणो गुणिविशेषक: , सम्बन्धेऽत्र षष्ठी । कर्त्तरीत्येव-पय:पायिका ।।८३।। तृतीयायाम् ।३।११८४॥ कर्त्तरि तृतीयायां सत्यां कर्मजा षष्ठी न समस्यते। आश्चर्यो गवां दोहोऽगोपालेन । तृतीयायामिति किम् ? शब्दानुशासनं गुरोः ||८४|| तृप्तार्थ-पूरणा-ऽव्यया-ऽतृश्-शत्रानशा ।३।११८५॥ तृप्ताथैः पूरणप्रत्ययान्तैरव्ययैरतृशन्तैः शत्रन्तैरानशन्तैश्च षष्ठयन्तं न समस्यते । फलानां तृप्तः , तीर्थकृतां षोडशः , राज्ञः साक्षात् , रामस्य द्विषन् , चैत्रस्य पचन् , मैत्रस्य पचमानः ।।८५।। ज्ञानेच्छा-ऽर्चार्था-ऽऽधारक्तेन ।३।११८६॥ ज्ञानेच्छार्चार्थेभ्यो यो वर्तमाने तो यश्च अद्यर्थाच्चाधारे [५।१।१२] इत्याधारे तदन्तेन षष्ठयन्तं न समस्यते । राज्ञां ज्ञातः , राज्ञामिष्टः , राज्ञां पूजितः , इदमेषां यातम् ।।८६।। __ अस्वस्थगुणैः ।३।१।८७॥ ये गुणा: स्वात्मन्येवावतिष्ठन्ते न द्रव्ये ते स्वस्थास्तत्प्रतिषेधेनाऽस्वस्थगुणवाचिभिः षष्ठयन्तं न समस्यते । पटस्य शुक्लः , गुडस्य मधुरः । अस्वस्थगुणैरिति किम् ? घटवर्णः , चन्दनगन्धः ।।८७|| सप्तमी शौण्डाद्यैः ।३।१।८८॥ एभिः सहैकार्थे सप्तम्यन्तं समासस्तत्पुरुषश्च स्यात् । पानशौण्डः , अक्षधूर्त: ||८८॥ सिंहायैः पूजायाम् ।३।११८९॥ १. भवतः शायिका तव शायिका खं२ ।। २. पालकेन पार J3 ।। ३. चैत्रस्य खं१,२ ।। ४. रुषः स्यात् पा२ खंर J3 ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy