SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १०८ स्वोपज्ञलघुवृत्तिविभूषितं उस्युक्तं कृता ।३।११४९॥ कृत्प्रत्ययविधायके सूत्रे डस्यन्तनाम्नोक्तं कृदन्तेन नाम्ना नित्यं समासस्तत्पुरुषः स्यात् । कुम्भकार: । डस्युक्तमिति किम् ? अलं कृत्वा । कृतेति किम् ? धर्मो वो रक्षतु ॥४९॥ तृतीयोक्तं वा ।३।११५०॥ दंशेस्तृतीयया [५/४/७३] इत्यतो यत्तृतीयोक्तं नाम तत् कृदन्तेन वा समासस्तत्पुरुषः स्यात् । मूलकोपदंशम् , मूलकेनोपदंशं भुङ्क्ते ।।५०।। नञ् ।३।११५१॥ नञ् नाम नाम्ना समासस्तत्पुरुषः स्यात् । अगौः ; असूर्यंपश्या राजदारा: ॥५१॥ पूर्वा-ऽपरा-ऽधरोत्तरमभिन्नांशिना ।३।११५२।। पूर्वादयोऽशार्था अंशवद्वाचिना समासस्तत्पुरुषः स्युः , न चतु सोंऽशी भिन्न: | पूर्वकाय: , अपरकाय: , अधरकायः , उत्तरकाय: । अभिन्नेनेति किम् ? पूर्व छात्राणामामन्त्रयस्व । अंशिनेति किम् ? पूर्वो नाभे: कायस्य ।।५२।। सायाह्नादयः ।३।१५३॥ एतेंऽशितत्पुरुषा: साधवः स्युः । सायाह्नः , मध्यन्दिनम् ।।५३।। समेंऽशेऽर्द्धं नवा ।३।११५४॥ समांशार्थमर्द्धमंशिनाऽभिन्नेन वा समासस्तत्पुरुषः स्यात् । अर्द्धपिप्पली , पिप्पल्यर्द्धम् । समेंऽश इति किम् ? ग्रामार्द्धः ।।५४॥ जरत्यादिभिः ।३।११५५॥ एभिरंशिभिरभिन्नरर्हो वा समासस्तत्पुरुष: स्यात् । अर्द्धजरती , जरत्यर्द्ध: ; अझैक्तम् , उक्तार्द्धः ॥५५।। द्वि-त्रि-चतुष्पूरणा-ऽग्रादयः ।३।१॥५६॥ पूरणप्रत्ययान्ता द्वि-त्रि-चत्वारोऽग्रादयश्चाभिन्नेनांशिना वा समासस्तत्पुरुषः स्युः । द्वितीयभिक्षा , भिक्षाद्वितीयम् ; तृतीयभिक्षा , भिक्षातृतीयम् ; तुर्यभिक्षा , भिक्षातुर्यम् ; अग्रहस्त: , हस्ताग्रम् ; तलपाद: , पादतलम् ।।५६।। कालो द्विगौ च मेयैः ।३।१५७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy