SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । गति-कन्यस्तत्पुरुषः ।३।११४२॥ गतय: कुश्च नाम्ना सह नित्यं समासस्तत्पुरुष: स्युः , अन्यः बहुव्रीह्यादिलक्षणहीनः । ऊरीकृत्य , खाट्कृत्य , प्रकृत्य , कारिकाकृत्य ; कुब्राह्मण: , कोष्णम् । अन्य इति किम् ? कुपुरुषकः ॥४२|| दुर्निन्दा-कृच्छ्रे ।३।११४३॥ दुरव्ययं निन्दा-कृच्छ्रवृत्ति नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् । दुष्पुरुषः , दुष्कृतम् । अन्य इत्येव- दुष्पुरुषकः ।।४३।। सुः पूजायाम् ।३।१॥४४॥ स्वित्यव्ययं पूजार्थं नाम्ना सह नित्यं समासस्तत्पुरुष: स्यात् । सुराजा । अन्य इत्येव- सुमद्रम् ।।४४|| अतिरतिक्रमे च ।३।१४५॥ अतिक्रमे पूजायां चार्थे अतीत्यव्ययं नाम्ना समासस्तत्पुरुष: स्यात्। अतिस्तुत्य , अतिराजा ।।४५।। आङल्पे ।३।११४६॥ आडित्यव्ययमल्पार्थं नाम्ना समासस्तत्पुरुष: स्यात् । आकडारः ॥४६।। प्रात्यव-परि-निरादयो गत-क्रान्त-क्रुष्ट-ग्लान-क्रान्ताद्याः प्रथमाद्यन्तैः ।३।११४७॥ प्रादयो गताद्यर्थाः प्रथमान्तैः , अत्यादय: क्रान्ताद्यर्था द्वितीयान्तैः , अवादय: क्रुष्टाद्यर्थास्तृतीयान्तैः , पर्यादयो ग्लानाद्यर्थाश्चतुर्थ्यन्तैः , निरादय: क्रान्ताद्यर्थाः पञ्चम्यन्तैर्नित्यं समासस्तत्पुरुष: स्यात् । प्राचार्यः , समर्थः ; अतिखट्व: , उद्वेल: ; अवकोकिल: , परिवीरुत् ; पर्यध्ययन: , उत्सङ्ग्रामः ; निष्कौशाम्बि: , अपशाख: ; बाहुलकात् षष्ठयाऽपि- अन्तर्गार्ग्य: । गताद्यर्था इति किम् ? वृक्षं प्रति विद्युत् । अन्य इत्येव- प्राचार्यको देशः ॥४७॥ अव्ययं प्रवृद्धादिभिः ॥३॥१॥४८॥ अव्ययं प्रवृद्धादिभिस्सह नित्यं समासस्तत्पुरुष: स्यात्। पुन:प्रवृद्धम् , अन्तर्भूतः ||४८|| १. स्यात् J3 || २. दुरित्यव्ययं खं२ ।। ३. नाम्ना सह समास खं२ । नाम्ना सह नित्यं समास पा३ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy