SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । नित्यं हस्ते-पाणावुद्वाहे ॥३॥१॥१५॥ एतावव्ययावुद्धाहे गम्ये कृग्योगे गती स्याताम् । हस्तेकृत्य , पाणौकृत्य । उद्वाह इति किम् ? हस्ते कृत्वा काण्डं गतः ॥१५|| प्राध्वं बन्धे ।३।१११६॥ प्राध्वमित्यव्ययं बन्धार्थं कृग्योगे गति: स्यात् । प्राध्वंकृत्य । बन्ध इति किम् ? प्राध्वं कृत्वा शकटं गतः ॥१६॥ जीविकोपनिषदौपम्ये ।३।१।१७॥ एतावौपम्ये गम्ये कृग्योगे गती स्याताम् । जीविकाकृत्य , उपनिषत्कृत्य॥१७|| नाम नाग्नैकार्थे समासो बहुलम् ।३।१।१८॥ नाम नाम्ना सह ऐकायें सामर्थ्यविशेषे सति समासो बहुलं स्यात् , लक्षणमिदमधिकारश्च , तेन बहुव्रीह्यादिसंज्ञाऽभावे यत्रैकार्थता तत्रानेनैव समास: । विस्पष्टपटुः , दारुणाध्यायक: , सर्वचर्मीणो रथ: , कन्येइव , श्रुतपूर्वः । नामेति किम् ? चरन्ति गावो धनमस्य । नाम्नेति किम् ? चैत्र: पचति ॥१८॥ सुज्-वार्थे संख्या संख्येये संख्यया बहुव्रीहिः ।३।१।१९॥ सुजों वार: , वार्थो विकल्प: संशयो वा , तद्वृत्ति सङ्ख्यावाचि नाम सङ्ख्येयार्थेन सङ्ख्यानाम्ना सहैकार्थ्ये समासो बहुव्रीहिश्च स्यात् । द्विदशाः , द्वित्रा: । सङ्खचेति किम् ? गावो वा दश वा । सङ्ख्ययेति किम् ? दश वा गावो वा । सङ्खयेय इति किम् ? द्विर्विंशतिर्गवाम् ।।१९।। आसन्ना-ऽदूरा-ऽधिका-ऽध्य -ऽर्द्धादिपूरणं द्वितीयाद्यन्यार्थे । ३॥१॥२०॥ आसन्नादि अर्द्धपूर्वपदं च पूरणप्रत्ययान्तं नाम संख्यानाम्नैकार्थ्ये समास: स्यात् , द्वितीयाद्यन्तस्यान्यपदस्यार्थे सङ्खयेये वाच्ये , स च बहुव्रीहि: । आसन्नदशा: , अदूरदशा: , अधिकदशा: , अध्यर्द्धविंशा: , अर्द्धपञ्चमविंशाः ॥२०॥ अव्ययम् ।३।१।२१॥ अव्ययं नाम सङ्ख्यानाम्नैकार्थे समस्यते द्वितीयाद्यन्यार्थे सङ्ख्येये वाच्ये स च बहुव्रीहिः । उपदशा: ॥२१॥ एकार्थं चाऽनेकं च ।३।१।२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy