SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १०२ स्वोपज्ञलघुवृत्तिविभूषितं । तृप्ताविति किम् ? तण्डुलावयवे कणे हत्वा ।।६।। पुरोऽस्तमव्ययम् ।३।११७॥ एतावव्ययौ गती स्याताम् । पुरस्कृत्य , अस्तङ्गत्य । अव्ययमिति किम् ? पुरः कृत्वा , नगरीरित्यर्थः ।।७|| गत्यर्थ-वदोऽच्छः ।३।१।८॥ अच्छेत्यव्ययं गत्यर्थानां वदश्च धातो: सम्बन्धि गति: स्यात् । अच्छगत्य , अच्छोद्य ॥८॥ तिरोऽन्तौ ।३।११९॥ तिरोऽन्तझै गति: स्यात् । तिरोभूय ।।९।। कृगो नवा ।३।१।१०॥ तिरोऽन्तौ कृग: सम्बन्धि गतिर्वा स्यात् । तिरस्कृत्य , तिर:कृत्य , पक्षे तिरः कृत्वा ॥१०॥ मध्ये-पदे-निवचने-मनस्युरस्यनत्याधाने ।३।१।११॥ ___ अनत्याधानम् अनुपश्लेषोऽनाश्चर्यं वा , तद्वृत्तय एतेऽव्ययाः कृग्योगे गतयो वा स्युः । मध्येकृत्य , मध्ये कृत्वा ; पदेकृत्य , पदे कृत्वा ; निवचनेकृत्य , निवचने कृत्वा ; मनसिकृत्य , मनसि कृत्वा ; उरसिकृत्य , उरसि कृत्वा ||११|| उपाजेऽन्वाजे ।३।१।१२॥ । एतावव्ययौ दुर्बलस्य भग्नस्य वा बलाधानार्थौ कृग्योगे गती वा स्याताम् । उपाजेकृत्य , उपाजे कृत्वा ; अन्वाजेकृत्य , अन्वाजे कृत्वा ॥१२॥ स्वाम्येऽधिः ।३।११३॥ स्वाम्ये गम्येऽधीत्यव्ययं कृग्योगे गतिर्वा स्यात् । चैत्रं ग्रामेऽधिकृत्य , अधि कृत्वा वा गतः । स्वाम्य इति किम् ? ग्राममधिकृत्य , उद्दिश्येत्यर्थः ।।१३।। साक्षादादिश्व्य र्थे ।३।१४॥ एते च्च्यर्थवृत्तय: कृग्योगे गतयो वा स्युः । साक्षात्कृत्य , साक्षात् कृत्वा ; मिथ्याकृत्य , मिथ्या कृत्वा ॥१४।। १. च पार ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy