SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ XOXOXC XXXXCX014 मरिजा वा ॥ ३ ॥ आत्मार्थं - स्वप्रयोजनं, परार्थं वा परप्रयोजनम्, उभयस्य - आत्मनः परस्य च प्रयोजन इति गम्यम्, अन्तरेण वा - विना वा प्रयोजनमेवेति सूत्रार्थः ॥ २५ ॥ इत्थं स्वगतदोषपरिहारमभिधायोपाधिकृतदोषपरिहारमाहसमरेसु अगारेसु, संधिसु य महापहे । एगो एमित्थीए सद्धिं, नेव चिट्ठे न संलवे ॥ २६ ॥ व्याख्या - समरेषु - खरकुटीषु, तथा च चूर्णिकृत् - 'समरं नाम जत्थ लोहारा हेट्ठाकम्मं करेंति' । नीचास्पदानामुपलक्षणमेतत् । अगारेषु - गृहेषु गृहसंधिषु - गृहद्वयापान्तरालेषु महापथे - राजपथादौ, एक:- असहायः एकस्त्रिया सार्धं - सह नैव तिष्ठेत् नैवोद्धस्थानस्थो भवेत्, न संलेपत्-न तथैव सह संभाषं कुर्यात् । अत्यन्त दुष्टतोद्भावनपरं चैकप्रहणम्, अन्यथा ससहायस्याऽपि ससहाययाऽपि स्त्रिया सहाऽवस्थानं संभाषणं चैवंविधास्पदेषु दोषायैव, प्रवचनमालिन्यादिदोषसंभवात् । उक्तश्व - मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥ १ ॥ इति सूत्रार्थः ॥ २६ ॥ कदाचित् स्खलिते च गुरुभिः शिक्षितो यत् कुर्यात् तदाह बुद्धसासंति, सीएण फरुसेण वा । मम लाभु त्ति पेहाए, पयओ तं पडिस्सुणे ॥ २७ ॥ व्याख्या—यन्मां बुद्धा अनुशासन्ति - शिक्षयन्ति, शीतेन - उपचाराच्छीतलेनाऽऽह्लादकेनेत्यर्थः, परुषेण वा - कर्कशेन वचसेति गम्यते, मम लाभ: - अप्राप्तार्थप्राप्तिरूपोऽयं यन्मामनाचारकारिणममी शासन्तीति प्रेक्षया - एवंविधबुद्ध्या, प्रयत्न:- प्रयत्नवांस्तत्- अनुशासनं प्रतिशृणुयात्- विधेयतया अङ्गीकुर्यादिति सूत्रार्थः ॥ २७ ॥ किमिह परत्र चाऽत्यन्तो - पकारि गुरुवचनमपि कस्यचिदनिष्टं स्याद् येनैवमुपदिश्यते इत्याह १ समरं नाम यत्र लोहकाराः अधः कर्म कुर्वन्ति । axoxoxoxoxoxoxoxoxoxoxx
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy