________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥ १ ॥
जीवाः । मात्रादिबन्धुभावं शत्रूदासीनभावं च ॥ १॥" अतः कोऽत्र बन्धुः ? को वा परः ?, तथा "" कोहो य माणो य अणिगहीया, माया य लोभो य पवद्रुमाणा । चत्तारि एए कसिणा कसाया, सिञ्चन्ति मूलाई पुणब्भवस्स ॥ १॥" अतो न देयः क्रोधादिरिपुवर्गस्याऽवकाश इत्यादिपरिभावनादिभिः स्वजनादिसम्बन्धरहितस्येत्यभिप्रायः, 'अनगारस्य' परकृतगृहनिवासित्वात्तत्राऽपि ममत्वमुक्तत्वात् सङ्गरहितस्य 'भिक्षोः ' साधोः 'विनयं' साधुजनासेवितसमाचारं उपचारं वा अभ्युत्थानादि 'प्रादुःक| रिष्यामि' प्रकटयिष्यामि, कथम् ? इत्याह- ' आनुपूर्व्या' परिपाट्या, प्राकृतत्वात्तृतीयार्थे द्वितीया, 'शृणुत' आकर्णयत, अनेन | च श्रोतुरभिमुखीकरणेन पराङ्मुखमपि प्रतिबोधयतो व्याख्यातुर्धर्म एवेति ख्यापितं भवति । तथा च बाचक : - " न भवति धर्मः श्रोतुः, सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या, वक्तुस्त्वेकान्ततो भवति ॥ १ ॥ " 'मम' कथयत इति गम्यत इति सूत्रार्थः ॥ १ ॥ यदुक्तं विनयं प्रादुः करिष्यामीति तत्र विनीतस्वरूपे कथिते विनयस्वरूपमुक्तमेव स्यादिति तत्स्वरूपमाहआणाणिद्देसकरे, गुरूणमुववायकारए । इंगियाकारसंपण्णे, से विणीए त्ति वुच्च ॥ २ ॥ व्याख्या – आज्ञा - सौम्य ! इदं कुरु इदच मा कार्षीरिति गुरुवचनं तस्य निर्देश:-इत्थमेव करोमीति निश्चयाभिधान| माज्ञानिर्देशस्तं करोतीत्याज्ञानिर्देशक गुरूणाम् - आचार्यादीनामुपपातः - समीपस्थानं तत्कारकः - तदनुष्ठाता, न त्वादेशभयाद् दूरस्थायी, इङ्गितं - निपुणमतिगम्यं प्रवृत्तिनिवृत्तिसूचकमीषद्भूशिरः कम्पादि आकारः - स्थूलधीसंवेद्यः प्रस्थानादिभावसूचको दिगवलोकनादिः, आह च - " अवलोयणं दिसाणं, वियंभणं साडगस्स संवरणं । आसणसिढिली करणं, | पट्टियलिंगाई एयाई ॥ १ ॥” अनयोर्द्वन्द्वे इङ्गिताकारौ ताभ्यां गुरुगताभ्यां सम्पन्न: - युक्तस्तद्वेदितया कथिते विनयस्वरूपे १ “क्रोधश्च मानश्चानिग्रहीता माया च लोभश्च प्रवर्धमानाः । चत्वार एते कृत्स्नाः कषायाः, सिञ्चन्ति मूलानि पुनर्भवस्य ॥ १ ॥” २ "अवलोकनं दिशां विजृम्भणं शाटकस्य संवरणम् । आसनशिथिलीकरणं प्रस्थितलिङ्गान्येतानि ॥ १ ॥”
XCXXXCXCXCXCXCXCXCXX8
प्रथमं विन
याध्यय
नम् ।
112 11