SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥५२५॥ | स्याद् अनित्यश्च विषयश्च स्यात्, न चेत्थमभ्युपेयेते, कुतः १ इत्याह- 'जम्माणतरहयं च तं'ति, जन्मानन्तरहतत्वाभ्युपगमाद्विज्ञानस्येति गाथार्थः ॥ २१५४॥ तथा यदि च प्रत्ययनियमो न स्यात्ततोऽस्य सर्वपरिच्छेदशक्तिः स्यात्, न च तदेवं प्रत्ययार्थान्तराविषयत्वात् कथमेतदित्याह - 'जं सविसयनिययं चिय'त्ति, अतस्तदित्थंभूतं विज्ञानमेकमेकवन्धनमेकान्तक्षणिकं च कथ नु ज्ञास्यति, सुबहुविज्ञानानां विषयेषु क्षणभङ्गसुखदुःखशून्यानात्मकादीनि धर्मरूपाणि, इतो बौद्धस्यैतदिच्छतोऽप्येकदा क्षणिकज्ञानप्रसङ्गः, अन्यदाहि प्रत्ययनियमाभाव इत्युभयपाशा रज्जुरिति । कदाचिन्निरुत्तरीकृत इदमभिदध्यादत आह- 'गेहेज्जेत्यादि । यदि च मतिर्भवतः - तद्विज्ञानं गृह्णीयात् सर्वभङ्गं 'सविसयाणुमाणाओ'ति सविषयानुमानद्वारेण एतदुक्तं भवति - अयमस्मद्विषयः क्षणिकोऽहं च, अत एत ज्ञानविषयसामान्यादन्यविज्ञानानां तद्विषयाणां च क्षणिकत्वमत्र भोत्स्यत इति, प्रयोगः- यत्सत्तत्सर्वमदृश्य| मानमपि क्षणिकं यथाऽस्मद्विषयिणाविति पूर्वपक्षः । अत्र लांछनमुद्भावयन्नाह - 'तंपि ण'त्ति एतदपि न घटां प्राञ्चति, कुतः ?, इत्याह-यतोऽनुमानं 'युक्तं 'घटमानकं तेषामन्यविज्ञान विषयादीनां सत्त्वदुःखशून्यानात्मकाद्युपलब्धौ सत्यां, न च तस्य स्वविषयानुमानद्वारेण सर्वेषु क्षणिकता दिहेतुरन्यविज्ञानानि तद्विषयास्तेषामेव च तद्विज्ञानजनन स्वभावप्रत्ययाः कदाचित्सच्चेन प्रतीताः, तत्सत्त्वाप्रतीतौ चायुष्मन् ! किमुच्यते यत्सत्तत्सर्वं क्षणिकं मद्विषयविषयिवदिति, न हि सच्चेनाप्रतीते ध्वनौ कृतकद्वारेण प्रतिक्षणविनाशिता कस्यचित्तार्किकस्य सिद्धाऽभूत्, ननूक्तं तत्र 'पक्षः प्रसिद्धो धर्मीति स्मर्यतामेतत् स्याद् - ब्रूयादात्मानुमानादेवैतत्सत्त्वं सिद्धं तथाहि यथाहमस्मि सद्रूपो मद्विषयश्वोभयं च क्षणिकं यथा एवमन्यविज्ञानविषया अपीत्यतः किमिदमैश्वर्या रूढैरुचैरभिधीयते असिद्धो हेतुरिति ?, उच्यते, सौम्य ! तदप्रत्ययत्वात्, तदात्मानमेव नावबुध्यते-अहमस्मि विज्ञानं क्षणिकं चेति, प्रतीयते-निश्चीयतेऽ क्षणिकवादनिरासः ॥५२५॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy