SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ प्रकृतं तु सामायिकस्थेन विकथादि न कार्य, स्वाध्यायादिपरेणासितव्यं, यदुक्तं-“विगहाइएहिं रहिओ, सज्झायपरो तया जईतुल्लो। इच्छियकालं । दोषद्वारं नवपदवृत्तिःमू.देव. चिट्ठ पारेउं कुणइ वावारे ॥१॥" त्ति, न चेप्सितकालं तिष्ठेदित्युक्तरेव तदैव गृहीतं तदैव मुक्तं सामायिके कार्यम्, अनवस्थितकरणताप्रसङ्गात्। गा. ९६ वृ. यशो K किं तर्हि ?, जघन्यतोऽपि घटिकाद्वयं सामायिके स्थेयमिति वृद्धोपदेशः, इह च नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूद्वैवं भूतभेदाः सप्त मूलनया:, ॥२२४|| तेषु च को नय: किं सामायिकमिच्छतीत्येतदपि किञ्चिदुच्यते, तत्र नैगमस्तावद्यदैव सामायिकं गुरुणोद्दिष्टं यथा सामायिकसूत्रं पठ तदैव सामायिक KO मन्यते, सङ्ग्रहव्यवहारौ तु सामायिका) गुर्वन्तिकोपविष्टस्यैव सामायिकमभ्युपगच्छतः, ऋजुसूत्रमतं तु य: सामायिकाभ्युपगमसूचिका सामायिकगाथा KI | पठति चैत्यवन्दनं वा तदर्थं करोति तस्यैव सामायिकमभ्युपगच्छति, आसन्नासाधारणकारणत्वात्, शब्दादयः पुन: सामायिकोपयुक्तं समभावव्यवस्थितं शब्दक्रियारहितमपि सामायिकं स्वीकुन्ति, तत्परिणामानन्यत्वात्, इति नयवादाश्चित्रा: क्वचिद्विरुद्धा इवाथ न विरुद्धा: । लौकिकविषयातीतास्तत्त्वज्ञानार्थमधिगम्या: अ॥१॥ न चैतेभ्यस्तत्त्वज्ञानं न संभवति परस्परविरुद्धार्थप्रतिपादकत्वादिति वाच्यं, तथाभूतानामपि परस्परनिश्रया सम्यगरूपत्वात्, तथाचोक्तम्-'"एवं सव्वेऽवि नया मिच्छट्ठिी सपक्खपडिबद्धा । अण्णोऽण्णनिस्सिया पुण लहंति सम्मत्तसब्भावं ॥१॥" अत एव च सर्वनयसमूहमयं जिनमतमभिधीयते, यथोक्तम्-"सोउं सद्दहिऊण य णाऊण य तं जिणोवएसेणं । तं सव्वनयविसुद्धं समत्यनयसम्मयं जं तु ॥१॥" उक्तं यथा जायते सामायिकम्, अधुना जातमप्येतद् यदि न पाल्यते तदा दोष: ? इत्याह सामाइयं तु पडिवज्जिऊण भंजंति कम्मदोसेण । ते कंडरीयसरिसा भमंति संसारकंतारे ॥९६॥ _ 'सामायिकं' उक्तशब्दार्थ 'तुः पुनरर्थे तस्य चाग्रे योजना प्रतिपद्य' अङ्गीकृत्य ‘भञ्जन्ति' विनाशयन्ति पुन: 'कर्मदोषेण' चारित्रावरणीयादृष्टापराधेन । 'ते' सामायिकप्रतिपत्तारः, प्रस्तुतश्रावकाः किमित्याह-'कण्डरीकसदृशाः' कण्डरीकाभिधानराजपुत्रतुल्या: 'भ्रमन्ति' पर्यटन्ति संसरन्त्यस्मिन् प्राणिन इति संसारो-नारकतिर्यड्नरामरगतिलक्षणः स एव चतुरशीतियोनिलक्षगहनत्वाज्जरामरणादिभयाकुलत्वाच्च कान्तारम्-अटवीं संसारकान्तारं तस्मिन् । नन्वत्र देशविरतश्रावका: प्रस्तुताः कण्डरीकस्तु प्रतिपन्नसर्वविरति: अतः कथं सोऽत्र दृष्टान्ततया सङ्गच्छते ?, सत्यं, सर्वविरतेरपि सामायिकभेदत्वेन तच्छब्दवाच्यत्वादित्यदोष इति गाथाऽक्षरार्थ: ।। भावार्थस्तु कथानकगम्यः, तच्चेदम् 18॥२२४॥ अस्ति समस्तशस्तवस्तुस्तोमनामासङ्ख्येयद्वीपसागरमध्यवर्ती हिमवदादिषट्संख्याविख्यातवर्षधरगिरिवरविरचितभरतादिसप्तक्षेत्रीविशेषो JainEducXTemational For Person Private Use Only famelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy