SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू. देव. व. यशो ॥ २२० ॥ उपयुक्ताः दत्तावधानाः तदुपयुक्ताः, 'सम्यक्' अवैपरीत्येन ये तान् 'साधून्' श्रमणान् 'नमस्यामि' नमस्करोमि । अयमत्र समुदायार्थ:- ये सम्यक्चन्तनाद्युपयुक्ता यतनया चिन्तनादिकमपि कुर्वन्ति तान् साधून् नमस्यामि, तंत्र चिन्तनोपयोग उपयोगलक्षणोऽनादिनिधनः शरीरादर्थान्तरभूतः स्वयं कर्मणः कर्त्ता तत्फलोपभोगी च जीवो मया चिन्तनीयः, अजीवादिर्वा तल्लक्षणाद्युपेतो, अयं चाप्रवृत्तचिन्तस्योपयोगः, प्रवृत्तचिन्तस्य त्वेवं- किमहं शुभं चिन्तयाम्यशुभं वा ?, तत्र यदाऽनाभोगादिनाऽशुभं चिन्तयति तदा मिथ्यादुष्कृतदानपूर्वमनुतापगर्भमशुभं परित्यज्य शुभमेव पुनश्चिन्तयेत्, शुभचिन्तायामप्यपरापरपदार्थेषु गच्छच्चितं निवार्यम्, एकस्मिन्नेव वस्तुनि सूक्ष्मसूक्ष्मतरोपयोगेन धार्यामिति, करणोपयोगोऽपि एतत् चैत्यवन्दनाप्रतिक्रमणादि निरवद्यानुष्ठानं शास्त्रोक्तविधिना मया कार्यं, न पुनः सावद्यव्यापाररूपम्, अयमप्रवृत्तव्यापारस्योपयोगः, प्रवृत्तव्यापारस्य त्वहं न किञ्चित्सावद्यमाचरामि, अनुपयोगादिना सावद्याचरणेऽपि मिथ्यादुष्कृतदानपूर्वमनुतापगर्भं तत्त्यक्त्वा निरवद्यमेवानुष्ठातव्यं, तत्रापि तदुपरतये शक्तौ सत्यामभिग्रहसारं कायोत्सर्गादि विधेयमिति, शयनोपयोगस्त्वनागतो गुरुसकाशे मुखवस्त्रिकाप्रत्युपेक्षणपूर्वकं संस्तारकमनुज्ञाप्य बाहूपधानेन वामपार्श्वशायिना मया शयनीयं शयनप्रवृत्तौ तु न निसृष्टं शेते, सङ्कोचितपाणिपादस्तु सितुं न शक्नोति तदा कुक्कुटीन्यायेन पादप्रसारणादि करोति, प्रत्युपेक्ष्य प्रमृज्य च स्थाने मुञ्चति, अविधिशयनादौ तु मिथ्यादुष्कृतादि पूर्ववदिति, यानोपयोगस्तु युगमात्रन्यस्तदृष्टिनाऽव्याक्षिप्तचित्तेन दृष्टिपूतपदन्यासं त्रसाद्यसंसक्तमार्गेणोत्पन्ने गुर्वादिकार्ये मया गन्तव्यं, प्रवृत्तगमनोपयोगस्तु यथाचिन्तितनिष्पादनमेवोपयुक्ततया, अनाभोगादिनाऽन्यथाकरणे मिथ्यादुष्कृतादि पूर्ववदेतत्, अतिप्रसङ्गनिवारणाय च तनूत्सर्गाभिग्रहोत्रापीति, जल्पनोपयोगः पुनः षोडशवचनविधिज्ञेनात्मपरहितमकर्कशमनवद्यं मया भाषणीयं तदपि कार्यापतितमेव, न निष्प्रयोजनम्, अन्यथात्वे तु पूर्ववद्, अतिप्रसङ्गनिवारणार्थ तु शुभाध्यवसायस्य मौनाभिग्रहग्रहणमिति गाथार्थ: ।। गतं भावनाद्वारम् एतद्भणनाच्च नवभिरपि द्वारैर्व्याख्यातमनर्थदण्डविरतिव्रतम्, अस्य व्याख्यायां च समाप्तानि त्रीण्यपि गुणव्रतानि, अधुना शिक्षाव्रतानां शिक्षापदाख्यद्वितीयनामवतामवसरः तानि च सामयिकादीनि चत्वारि, तान्यपि च यादृशादिनवद्वारैरेव प्रत्येकं वाच्यानि, अतः प्रथमं सामायिकव्रतं प्रथमद्वारेणाह सावज्जजोगवज्जण निरवज्जस्सेह सेवणं जं च । सव्वेसु य भूएसुं समायाभावो य सामइयं ॥ ९३ ॥ सहावद्येन गर्ह्येण वर्त्तन्ते सावद्या: ते च ते योगाश्च व्यापाराः सावद्ययोगास्तेषां वर्जनं-त्यागः अनुस्वारलोपश्चात्र प्राकृतशैल्या, निरवद्यस्य ‘निष्पापव्यापारस्य पठनादेः 'इह' अस्मिन् शासने लोके वा 'सेवनं' अभ्यसनं यच्च तथा 'सर्वेषु' समस्तेषु 'च: ' पूरणे 'भूतेषु' प्राणिषु शत्रुमित्रादिरूपेषु Jain Education ternational For Personal & Private Use Only स्वरूपद्वारं गा. ९३ ॥२२०॥ Melibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy