SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥२०५॥ तत्र शिवजन्मविरचितमहातपञ्चरणफलमेतत्, एतच्च भगवतो महावीरस्य श्रेणिकाग्रे निवेदयतः श्रुत्वा वचनं जम्बूद्वीपाधिपो जम्बूवृक्षविहितनिवासोऽनादृताभिधानो देव: अहो ! ममोत्तमं कुलमिति त्रिपद्यास्फालनपूर्व जम्बूवृक्षहस्तोऽनेकयक्षयक्षिणीपरिवारो नर्त्तितुमारेभे ततः श्रेणिकेनोक्तं-कोऽयं किंनिमित्तं च नृत्यति ?, भगवानुवाच श्रेणिक ! शृणु अत्रैव नगरे बभूव मूर्त्तिमतिर्नामेभ्यः, तत्पुत्रौ वृषभदत्तजिनदत्तावभूतां, तयोश्च जिनदत्तोऽतिव्यसनी वृषभदत्तश्च शिष्टः, ततः पित्रा स एव गृहस्वामी विहितः, इतरश्च निष्काशितः सकलजनसमक्षं स्वगृहात्, ततोऽसौ द्यूतादिप्रसक्तः कदाचिद् द्यूतशालायां द्यूतकारैः समं रममाणक्वचिद्विसंवादे हतः क्षुरिकयैकेन द्युतकारेण मर्मदेशे, ज्ञातो वृषभदत्तेन नेतुमारब्धः प्रतिजागरणाय स्वगृहं, न च गतोऽसौ ततस्तत्रैव दत्तानशनो नमस्काराद्याराधनाकारणपूर्वं नियमित उदपादि जम्बूद्वीपस्वामी यक्षनिकायेऽनादृतनामा यक्षः, अयं चात्मीयभ्रातृजस्य जम्बूस्वामिनो भाविनीं कल्याणमालिकां निशम्य हर्षातिरेकादेवं नृत्यति पुनः श्रेणिक उवाच भगवन् ! विद्युन्मालिदेवस्य प्राग्जन्मगुरुर्जन्मान्तरभ्राता सागरदत्ताचार्यो व्रतमनुपाल्य क्व गतः ?, स्वामिना निरदेशि-उत्पाद्य विमलकेवलमवबोध्य विशिष्टभव्यसङ्घातम् । सिद्धिपुरीं सम्प्राप्तो व्यपगतकर्मा महात्माऽसौ ||१|| प्रकृतोपयोगिशिवभवसम्बन्धेनात्र लेशतः कथितम् । चरितं जम्बूनाम्नस्तच्चरिताद्विस्तरो ज्ञेयः ॥ २॥ उक्तमुपभोगपरिभोगपरिमाणकरणे गुणद्वारम् अधुनाऽस्यैव यतनाद्वारमुच्यतेजत्थ बहूणं घाओ जीवाणं होइ भुज्जमाणंमि । तं वत्युं वज्जेज्जा अइप्पसंगं च सेसेसु ॥ ८० ॥ 'यत्र' यस्मिन् वस्तुनीत्याद्यर्थसम्बन्धाद्गम्यते 'बहूनां' प्रचुराणां 'घात' विनाश: 'जीवानां' प्राणिनां 'भवति' जायते 'भुज्यमाने' आसेव्यमाने ‘तद्वस्तु’ तं प्रदार्थं ‘वर्जयेत’ परिहरेत्, 'अतिप्रसङ्गं च' अतिशयासक्ति च 'शेषेषु', अन्येषु, एतदुक्तं भवति यत्र वस्तुनि त्रससंसक्तफलादौ भुज्यमाने प्रभूतसत्त्वव्यापत्तिस्तद्वस्त्वेव परिहार्य, शेषे त्वसंसक्तेऽल्पपापे पुष्पफलादौ नात्यासक्तिः कार्येति गाथार्थ: ।। अतिचारद्वारमिदानीम् सच्चित्तं पडिबद्धं अपउलदुप्पउलियं च आहारं । तुच्छोसहीण भक्खणमिह वज्जे पंच अइयारे ॥ ८१ ॥ इह गृहीतोपभोगपरिभोगव्रत: श्रावक उत्सर्गेण निरवद्यमेवाहारमभ्यवहरति, तदप्राप्तौ कृतादिदोषदुष्टमपि निश्चेतनं, तदसंभवे तु बहुबीजानन्तकादिरहितं सचित्तमपि, यस्तु प्रथममेव सचित्तमनाभोगादिभिरभ्यवहरति तदपेक्षयाऽमी अतिचाराः संभाव्यन्त इत्यत उच्यते- सचित्तं' सचेतनं मूलकन्दादि, तथा 'प्रतिबद्धं' संबद्धं स्वयमचेतनमेव चेतनावद्वृक्षे गुन्दादि पक्वफलादि वा, तथा 'अपडलं' त्ति अपक्वम (क्वं स ) चित्तं यन्मूलत एवाग्निना न संस्कृतं 'दुप्पउलियं च ' ति दुष्पकं च- अर्द्धस्विन्न, आहारमिति सर्वत्र योज्यते, तेन सचित्तमाहारं सचित्तप्रतिबद्धमाहारमित्यादि, तुच्छा:- असारा औषधयस्तुच्छौषधयो For Personal & Private Use Only Jain Education International ॥२०५॥ www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy