SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ तच्छुत्वा प्रमदान्त, भीषणाकारधारित याद । ईशिषे स्यात्तवाणी, दर्दुराङ्क: परीक्षित भूपस्तु निश्चलो नवपद k जिनो भूप !, बद्धायुर्नरके भवान् । प्रागेव तेन तेऽवश्यं, गतिस्तत्र भविष्यति ।।२०॥ अवश्यभाविनो भावाः, न च शक्या महीपतेः ! । अन्यथा सेडुबक वृत्ति:मू.देव. | कर्तुमस्माभिरन्यैर्वाऽमरनायकैः ।।२१।। केवलं-भविताऽसि त्वमन्यस्यामहत्पङ्क्तौ जिनोत्तमः । महापद्माभिधो राजन् !, माऽतस्त्वमधृतिं कृथाः ॥२२॥ | तच्छुत्वा प्रमदोत्कर्षप्रफुल्लनयनाम्बुज: । प्रणम्य श्रेणिको भूपः, प्रोवाचेदं विचक्षणः ।।२३।। किं कश्चिदस्त्युपायोऽत्र, स्वामिन् ! येन न गम्यते । दृष्टान्तः ॥१९०। | नरकेऽस्माभिरत्यन्तं, भीषणाकारधारिणि ।।२४|| भगवान् प्राह भो भूप !, कपिलां ब्राह्मणी यदि । भिक्षां दापयसि प्रीत्या, तपस्विभ्य: कथञ्चन ।।२५।। कालसौकरिकं चापि, शूनां त्याजयितुं यदि । ईशिषे स्यात्ततो मोक्षस्तेऽन्यथा नेति चिन्त्यताम् ।।२६।। इत्यस्तसंशयो राजा, प्रणम्य परमेश्वरम् । स्थिरधी: शासने जैने, चचाल स्वगृहं प्रति ।।२७।। प्रस्तावेऽत्र स गीर्वाणो, दर्दुराङ्कः परीक्षितुम् । सम्यक्त्वविभ्रमं राज्ञः, पुरत: कृतवानिमम् ।।२८।। एकत्र दर्शितः साधुरकार्यं विदधत् पुरः । तथा यथा मनोऽन्यस्य, दृष्ट्वा धर्मात् पृथग्भवेत् ।।२९।। भूपस्तु निश्चलो धर्मे, भावयन् कर्मचित्रताम् । निवार्य प्रत्युत प्रीत्या, तमलक्ष्यं ययौ पुरम् ॥३०॥ भूयोऽपि गर्भिणी साध्वी, दर्शिता तेन तामपि । सङ्गोप्य शासनस्योच्चैररक्षल्लाघवान्तरम् ।।३१।। एवं यदा न राजेन्द्रः, कथञ्चिदपि चाल्यते । प्रत्यक्षीभूय देवेन, तदैवं किल भाषितम् ॥३२॥ भो भोः ! श्रेणिक ! यादृक्षस्त्वमिन्द्रेण परीक्षित: । तादृक्ष एव जैनेन्द्रशासनेऽसिस सुनिश्चलः ।।३३।। तद्गृहाण विभो ! हारं, गोलकद्वितयं तथा । क्रीडार्थमिति गीर्वाणो, ब्रुवंस्तस्मै तदर्पयत् ।।३४॥ त्रुटितं च तथा हारं, योऽमुं सन्धास्यते पुमान् । न जीविष्यत्यसावेवमुक्त्वा सोऽन्तर्दधे सुरः ।।३५।। नृपेणापि गृहं गत्वा, भणिता कपिला किल । देहि भिक्षां तपस्विभ्यस्तुभ्यं रामीप्सितं धनम् ॥३६।। कालसौकरिकोऽप्येवं, प्रोचे भूमिभृता भृशम् । शूनां त्यज धनं येन, प्रचुरं ते ददाम्यहम् ।।३७।। अभव्यत्वान्न तत्ताभ्यां, प्रत्यपद्यत भूपते: । वचनं नाथवाऽपुण्यैरमृतं लभ्यतेऽशितुम् ।।३८।। इदं प्रासङ्गिकं सर्वं, कथितं प्रस्तुतं पुन: । दुःखं सेटुबकः प्राप्त, उपभोगाकृतप्रमः ।।३९।। ज्ञात्वा सेटुबकस्यैवं, चरितं बहुविस्तरम् । अत्यासक्तिमुपभोगे, मा कृतात्यन्तदुःखदाम् ।।१४०।। अथ सुबन्धुकथानकं चैतत् पाटलिपुत्रे नगरे गुरुतरप्रतापदहनसंशोष्यमाणशत्रुसीमन्तिनीसंमदरसस्योदायिमहाराजस्य मरणानन्तरमुपविष्टे नापितनन्दराजे तदन्वयपर्यन्ताधायिना चाणिक्येनोपस्थापितस्य चन्द्रगुप्तराजस्य राज्यचिन्तानियोगवाहिना महामन्त्रिणा तेनैव चाणिक्येन नवमनन्दसम्बन्धी महत्तम: सुबन्धुनामा निष्कासितः, स च भवितव्यतावशेन देवभूयंगते चन्द्रगुप्ते तत्पुत्र एव बिन्दुसारे प्रतिपालयति राज्यसम्पदं वृद्धीभूते च चाणक्यमन्विणि तच्छिद्रान्वेषणपरो भूयोऽपि कथञ्चिल्लब्धप्रसरोऽन्यदा रहसि बिन्दुसारनरपतिं व्यजिज्ञपद्, यथा-देव ! वयं भवदीयराज्ये यद्यप्यवगीता एव तथाऽपि यदत्यन्तविरुद्धं तन्न शक्नुम: सोदुमित्यतोऽभिदध्महे-तव. Jain Educa M emaboral For Personal Private Use Only would brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy