SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ अभिन्नमुखरागोऽहं, यदियं सात्त्विक स्थिति ||९|| अलक्षितनिजाकाराः, धीराः स्युः समदर्शिनः । उत्कर्षदैन्यरहिताः, संपत्सु च विपत्सु च ॥ १० ॥ इत्यादि चिन्तयन्नेव गतोऽसौ राजमन्दिरम् । अभ्युत्थानादिना राज्ञा, संपूज्योक्तो रहस्यदः ॥ ११॥ भो ! भवन्तमहं किञ्चिदर्थये चेद्ददासि मे । ग्राह्यतां गृहिणीं शस्तां, स्वकीयभगिनीं मम || १२|| स उवाच कियन्मात्रं द्विपदाद्येतद्बाह्यकम् । जीवितव्यमपि स्वामिस्त्वदायत्तं हि मादृशाम् || १३ | गृह्यतां तदियं कन्या, ततो राज्ञा विवाहिता । प्रेमप्रदर्शनेनास्याश्चित्तमेष जहार च ॥ १४ ॥ तदुद्दिष्टघिनाद्यस्य, सन्मानादिपुरस्सरम् । जग्राह मण्डिवाजा, ज्ञात्वा तं निर्द्धनं ततः ॥ १५ ॥ निग्राह्योऽयमनाचार, इदानीं येन भूभुजाम् । निर्दिष्टे दुष्टशिष्टेषु, नीतौ निग्रहपालने || १६ || एवं विचिन्त्य पञ्चत्वं प्रापितोऽसौ महीभुजा । वेदयित्वा महद् दुःखं, विचित्रैर्यातनाशतैः ॥ १७ ॥ एवं मण्डिकवृत्तान्तः, सङ्क्षेपेण निवेदितः । उत्तराध्ययनवृत्तेर्विस्तरेणावबुध्यताम् ॥१८॥ अदत्तादानदोषेऽत्र, तावदेकं कथानकम् । उक्तं च मण्डिकस्यातो, विजयस्याधुनोच्यते ॥ २१९ ॥ अस्ति रम्यतानिरस्तसमस्तसुरलोकलोचनानन्ददायिस्थान २ वीक्ष्यमाणप्रेक्षणकादिविविधविलासविस्तरविस्तरद्तुच्छसच्छायमहोत्सववितीर्यमाणदीनानाथातिथिप्रभृतिप्रभूतजनकाञ्चनादिपदार्थसार्था सार्थिकवास्तव्यादिभेदभिन्नलोकसङ्घातसंजनितप्रमोदपरिदृश्यमानसदापुष्पितप्रचुरचम्पका चम्पाभिधाना नगरी, तस्यां बन्दीकृतारातिसामन्तसीमन्तिनीसमूहविधीयमानशुद्धान्तवधूविविधचरणपरिचरणोपलक्ष्यमाणप्रौढप्रतापः प्रतापाक्रान्तविक्रान्तभूपालमौलिमालामाल्यमलनदुर्ललितपादपल्लवो लव इव विषमशरशरासनवशीकृतोद्दामरामो जितशत्रुनामामहीपतिरासीत्, तस्य कुलक्रमसमागतासमशेमुष्युपहसितामरमन्त्रिणि मन्त्रिमण्डले निवेशितराज्यचिन्ताभारस्य सकलान्त: पुरप्रधानया नयविनयशालिन्या शालीनतादिगुणकलापधारिण्या धारिण्याख्यया प्रवरदेव्या सह सुखं विषयसौख्यं समनुभवतोऽतिचक्राम कियानपि कालः, अन्यदा च तन्नगर्यामविचार्यानार्यचर्यापरोऽत्यन्तमकारुण्योपेतोऽवस्वापिन्याद्यनेकचौरविद्याबलावलेपदृप्तहृदयः स्तेयाहितचित्तवृत्तिर्विजयनामा तस्करः तस्करत्वोपार्जितापर्यन्तद्रव्यसञ्चयसमुत् समुत्तस्थौ, तेन चाविज्ञातागमनेन कृतान्तेनेव प्रतिदिनापह्रियमाणप्रधानगृहसारोऽपरंपरिरक्षणोपायमात्मनोऽनवलोकयन्निःशेष एव नगरीजनो राजानमुपतस्थौ, बभेष चोपायनार्पणादिपूर्वचतुरङ्गवरूथिनीभराक्रमणावनमितवसुमतीभारभुग्नफणिपतिफणाचक्रवाले सत्यपि भवति भूपाले नगरीयमराजिकेव देव ! बाढमुपद्रुता तस्करैः, न सा काचिदतिक्रामति रात्रिर्यस्यां द्वित्राणि क्षत्राणीश्वरवेश्मसु न पतन्ति तदिदमाकर्ण्य देवः प्रमाणं, राजाऽप्यश्रुतपूर्वं तत्तथाविधमुपश्रुत्य नागरिकवचनं | महदप्येवंविधोपालम्भभाजनं संवृत्त इति मनाङ् मनस्युपजातखेदस्तूर्णं स्थित्वा क्षणं इतः प्रभृति सर्वं सुन्दरं करिष्यमीति प्रतिपाद्य नगरीजनं व्यसर्जयत्, Jain Educaternational For Personal & Private Use Only नवपद वृत्ति: मू. देव. वृ. यशो ।। ११८ ।। दोषद्वारे विजयचोरकथा ॥११८॥ Library.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy