SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू. देव. वृ. यशो ।। ११३ ॥ ॥ ७५ ॥ तद्भावं स तु विज्ञाय तथा क्षुद्रतया जलम् । चिक्षेपोष्णं यथाऽधःस्थो, दह्यमानः स निर्गतः ॥ ७६ ॥ तं निर्यातं स वीक्ष्याह, गृहीत्वा केशसञ्चये । किं करोमि तवेदानी, प्राप्तक्षुण्णस्य कथ्यताम् ? ॥७७॥ सोऽब्रवीद्रोचते तुभ्यं, यत्तदेव विधीयताम् । ततोऽसौ चिन्तयामास, महात्माऽसावहो ! अयम् ।। ७८ ॥ मनागपि न दीनत्वमापन्नव्यसनोऽपि यः । प्रकाशयति यद्वाऽत्र, सतामेतत्कुलव्रतम् ।। ७९ ।। यदुक्तम्- “विपदि न यस्य विषादः सम्पदि हर्षो रणे च धीरत्वम् । तं भुवनतिलककल्पं जनयति जननी सुतं विरलम् ॥ ८० ॥ किञ्च विरला एव संसारेऽनवाप्तव्यसना जनाः । अनुपायजीविनः स्थायिसौख्या वाच्यविवर्जिताः ॥ ८१ ॥ उक्तञ्च "कस्य वक्तव्यता नास्ति ? सोपायं को न जीवति ? । व्यसनं केन न प्राप्तं ?, कस्य सौख्यं निरन्तरम् ? ॥८२॥ विचिन्त्यैवं ततस्तेन, मामप्येवंविधापदि । विमुञ्चेस्त्वं महाभाग !, गदित्वैवं विसर्जितः ||८३ || पराभवपदापन्नो मूलदेवो व्यचिन्तयत् । स्वमुखं दर्शयिष्यामि कथं लोकस्य साम्प्रतम् ? ॥ ८४ ॥ यतः - "धनमानविहीनेन, नरेणापुण्यभोगिना । सवासा यत्र नेष्यन्ते, गन्तव्यं तत्र कुत्रचित् ॥ ८५ ॥ इत्येवं चिन्तयित्वाऽसौ, बिनातटपुरं प्रति । प्रवृत्तो गन्तुमेकाकी, स्वल्पपाथेयसंयुतः ॥ ८६ ॥ गच्छंश्च दिवसैः कैश्चित् संप्राप्तोऽसौ महाटवीम् । क्षीणसंबलकस्यास्य, सद्घटः मिलितस्ततः ।। ८७।। सक्तुपोट्टालिकाहस्तस्तं वीक्ष्यैष व्यचिन्तयत् । पाथेयेनाहमप्यस्य, लङ्घयिष्ये महाटवीम् ॥८८॥ ततस्तेन समनुं प्रवृत्तो यावदागतः । मध्याह्नसमयस्तीव्रस्ततो वीक्ष्य सरोवरम् ॥ ८९ ॥ मार्गासन्नतरं सारं, तथा न्यग्रोधपादपम् । छायायां तस्य विश्रान्तौ तौ क्षणं सद्धस्ततः ॥ ९० ॥ उत्थाय नीरतीरे च भूत्वा सक्तूनभक्षयत् । दास्यत्येष ममाप्येवं मूलदेवस्त्वचिन्तयत् ॥ ९१॥ आलापमप्यकुर्वाणस्तेन सार्द्ध च सद्घटः । सक्तुपोट्टलिकां बद्ध्वो, चचाल कृपणाशयः ।। ९२ ।। मूलदेवोऽपि मे चिन्तामग्रे क्वापि करिष्यति । एवमालोचयंश्चित्ते, तत्पृष्ठे व्यलगत्पुनः ।।९३।। दिनत्रयं व्यतिक्रान्तमेवं तस्य तदाशया । महाटवीं व्यवच्छिद्य, ग्रामनैकट्यमागतौ ।।९४।। मूलदेवस्ततश्चित्ते, व्यवस्थापितवानिदम् । एतदाशानुभावेन, लङ्घितेयं महाटवी ||१५|| उपकर्तुं तदेतस्य शक्यते न मयाऽधुना । संकल्प्यैवमवादीत्तं, भो भो भद्र ! यदा मम ॥ ९६ ॥ राज्यलाभं विजानीयास्तदाऽऽगच्छेर्ममान्तिकम् । येन प्रत्युपकारं ते, यथाशक्ति करोम्यहम् ॥ ९७ ॥ युग्मम् । इत्येवमुक्त्वा तं स्वयं ग्रामं विवेश सः। भिक्षार्थं तत्र लब्धाच, कुल्माषाः पूरिता पुटी ।। ९८ ।। व्यावृत्तः संप्रवृत्तश्च, तडागाभिमुखं ततः । भिक्षार्थं ग्राममायान्तं साधुं मासोपवासिनम् ।।९९।। दृष्ट्वा संकल्पयामास, धन्य एष महामुनिः । अहो ! पुण्यैर्ममात्रैवं दृष्टिमार्गमुपागतः ॥ १०० ॥ कुल्माषांश्च विमुच्येमान्, नापरं देयमस्ति For Personal & Private Use Only Jain Education International ॥११३॥ www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy