SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Jain Educationa international को गृह्णात्यवशिष्टान्नमिति पृष्टा महीभुजा । श्राख्यम्महानसायुक्ताः स्वामिन्नादद्महे वयम् ॥ १०६ ॥ यादिदेश च तान्राजा यदन्नमवशिष्यते । श्रकृताकारितार्थिन्यः साधुच्यो देयमेव तत् ॥ १०७ ॥ व्यं दास्यामि वस्तेन सनिर्वाहा जविष्यथ । न हि केष्वपि कार्येषु सीदति अव्यवाञ्जनः ॥ १०८ ॥ शिष्टान्नपानादि तदाद्यपि तदाज्ञया । साधुभ्यो ददिरे ते ऽपि स्वीचक्रुः शुद्धिदर्शनात् ॥ १०९ ॥ श्रमणोपासको राजा कान्दविकानथादिशत् । तैलाज्यदधिविक्रेतुन्वस्त्र विक्रयकानपि ॥ ११० ॥ यत्किंचिदुपकुरुते साधूनां देयमेव तत् । तन्मूल्यं वः प्रदास्यामि मा स्म शङ्कध्वमन्यथा ॥ १११ ॥ ते तथाजरे कर्तुं जातहर्षा विशेषतः । विक्रीयमाणे पण्ये हि वणिजामुत्सवो महान् ॥ ११२ ॥ तत्तथार्यसुहस्ती तु दोषयुक्तं विदन्नपि । सेहे शिष्यानुरागेण लिप्तचित्तो बलीयसा ॥ ११३ ॥ सुस्तिनमितश्चार्यमहागिरिरभाषत । अनेषणीयं राजान्नं किमादत्से विन्नपि ॥ ११४ ॥ सुहस्त्युवाच जगवन्यथा राजा तथा प्रजाः । राजानुवर्तनपराः पौरा विश्राणयन्त्यदः ॥ ११५ ॥ मायेयमिति कुपितो जगादार्यमहागिरिः । शान्तं पापं विसम्नोगः खल्वतः परमावयोः ॥ ११६ ॥ सामाचारी समानैर्हि साधुनिः साधु सङ्गतम् । सामाचारी विभिन्नस्य निन्नो ऽध्वातः परं तव ॥ ११७ ॥ वेपमानो जिया बाल व जक्तः सुहस्त्यपि । श्रर्यमहा गिरिपादान्वन्दित्वाचे कृताञ्जलिः ॥ ११८ ॥ सापराधो ऽस्मि जगन्मिथ्याः कृतमस्तु मे । क्षम्यतामपराधो ऽयं करिष्ये नेदृशं पुनः ॥ ११९ ॥ चे महागिरिरथ दोषः को नाम ते ऽथवा । पुरा जगवता वीरस्वामिनैतद्धि जाषितम् ॥ १२० ॥ १ ददन्ति For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy