SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अष्टमः ॥७२॥ ततो वररुचिर्गत्वा यन्त्रं गङ्गाजले व्यधात् । तन्मध्ये वस्त्रबद्धं च दीनारशतमष्टयुक्॥३०॥ प्रातर्गङ्गामसौ स्तुत्वा यन्त्रमाक्रामदंहिणा । दीनारास्ते च तत्पाणावुत्पत्य न्यपतस्ततः॥३१॥ स एवं विदधे नित्यं जनस्तेन विसिमिये । तच्च श्रुत्वा जनश्रुत्या राजाशंसत मन्त्रिणे ॥३॥ इदं यद्यस्ति सत्यं तत्पातीक्षामहे स्वयम् । इत्युक्तो मन्त्रिणा राजा तत्तथा प्रत्यपद्यत ॥ ३३ ॥ दत्त्वा शिक्षा चरः सायं प्रेषितस्तत्र मन्त्रिणा। शरस्तम्बनितीनो ऽस्थात्पदीवानुपलक्षितः॥३४॥ तदा वररुचिर्गत्वा बुवं मन्दाकिनीजले । दीनाराष्टोत्तरशतग्रन्धि न्यस्य ययौ गृहे ॥ ॥३५॥ तज्जीवितमिवादाय दीनारग्रन्थिमादरात् । चरः समर्पयामास प्रचन्नं वरमन्त्रिणे ॥३६॥ अथ गुप्तात्तदीनारग्रन्थिमन्त्री निशात्यये । ययौ राज्ञा समं गङ्गामागाधररुचिस्तदा ॥३७॥ अष्टकामं नृपं दृष्ट्वोत्कृष्टमानी सविस्तरम् । स्तोतुं प्रववृते गङ्गां मूढो वररुचिस्ततः॥३०॥ स्तुत्यन्ते ऽचालयद्यन्त्रं यदा वररुचिः परम् । दीनारग्रन्धिरुत्पत्य नापतत्पाणिकोटरे ॥ ३५ ॥ ग्रन्थिं गवेषयामास पाणिना तकाले ततः । सो ऽस्थादपश्यंस्तूष्णीको धूर्तो घृष्टो हि मौनजाक् ॥३०॥ इत्यूचे च महामात्यः किं ते दत्ते न जाह्नवी। न्यासीकृतमपि व्यं गवेषयसि यन्मुहुः॥४१॥ उपलक्ष्य गृहाणेदं निजव्यमिति ब्रुवन् । सो ऽर्पयामास दीनारग्रन्थिं वररुचेः करे ॥४॥ दीनारग्रन्थिना तेनोत्सापर्हद्रन्थिनेव सः । दशामासादयामास मरणादपि दुःसहाम् ॥ ३ ॥ विप्रतारयितुं लोकं सायमत्र क्षिपत्यसौ । अव्यं प्रातः पुनगुहातीत्यूचे सचिवो नृपम् ॥ ४ ॥ साधु जातमिदं बनेत्यालपन्मन्त्रिपुङ्गवम् । विस्मयस्मेरनयनः स्ववेश्मागान्महीपतिः ॥ ४५ ॥ ॥ ॥ For Personal and Private Use Only www.jainelibrary.org JainEducationanthan
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy