SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ निररररर-55 अनक्तस्निग्धमनसममृजोज्वलवाक्पथम् । अधौतामलशीलं त्वां शरण्यं शरणं श्रये ॥२॥ अन० अनक्तस्निग्धमनसं ममत्वस्नेहेनादिग्धं स्निग्धं मनो यस्य तं मृजामुद्योतनं विनोज्वलो वाक्पथो वाक्सञ्चारो यस्य तमधौतमक्षालितमेवाऽमलं शीलमाचारो यस्य तं शरण्यं शरणाय हितं, त्वां शरणमहं श्रये गच्छामि ॥२॥ ___अचण्डवीरवृत्तिना शमिना शमवर्तिना । त्वया काममकुट्यन्त कुटिलाः कर्मकण्टकाः ॥३॥ (अक्रोधा या सुभटता तद्वता इन्द्रिय नोइन्द्रियविकारशमकेन शमप्रधानाचारपरायणेन, परीषहोपसर्गजयकारणनिर्ग्रन्थाचारचारिणा काममत्यन्तं, अपुनर्बन्धतया कुटिलाः वक्रतया कण्टकवघ्यथाभरविधायित्वात्कर्मकण्टका निरकाश्यन्त) ॥३॥ अभवाय महेशाय गदाय नरकच्छिदे । अराजसाय ब्रह्मणे कस्मैचिद्भवते नमः ॥४॥ ___ अभ० हे वीतराग! भवते तुभ्यं, कस्मैचिदनिर्वाच्यस्वरूपाय नमोऽस्तु, यतः किंविशिष्टाय ? अभवाय महेशायातिसमृद्धाय, पक्षे रुद्रायागदाय निरोगाय, पक्षे गदानामशस्त्ररहिताय नरकच्छिदे पक्षे विष्णवे रजोगुणरहिताय ब्रह्मणे, पक्षे ज्ञानस्वरूपाय ॥४॥ अनुक्षितफलोग्रादनिपातगरीयसः। असङ्कल्पितकल्पद्रोस्त्वत्तः फलमवाप्नुयाम् ॥५॥ अनु० हे वीतरागाऽसिक्तफलपरिपूर्णादनिपातेनाऽभ्रष्टतया, पक्षेऽपतनेन गरिष्ठादचिन्तितवाञ्छितप्रदकल्पद्रुमात्त्वत्तोहमैहिकामुष्मिकं फलमवाप्नुयां प्रामोमि ॥५॥ असङ्गस्य जनशस्य निर्ममस्य कृपात्मनः । मध्यस्थस्य जगत्रातुरनकस्तेऽस्मि किङ्करः ॥६॥ Jain Educati o nal For Private Personal use only Jv.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy