SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥७२॥ Jain Education स्वयं ० स्वयमात्मना मलीमसा चारैर्मलिनाचारैर्लोकानां विप्रलम्भनप्रभुभिः परैर्ब्रह्मादिभिर्देवैर्यज्ञादिरतैर्गुरुभिश्चैतज्जगदपि वश्यते तेन वयं त्वां विनाऽन्यस्य कस्य पुरः पूत्कुर्महेबुब्बां कुर्मः ॥ ६ ॥ नित्यमुक्तान् जगज्जन्मक्षेमक्षयकृतोद्यमान् । वन्ध्या स्तनन्धयप्रायान् को देवांश्चेतनः श्रयेत् ॥ ७ ॥ नित्य० तथा हेवीतराग ! कश्चेतनः सुधीः देवांस्त्वदन्यान् श्रयेत् कथंभूतान् ? नित्यमुक्तान्सर्वदापि कर्म्मरहितान् पुनः किंविशिष्टान् ? जग० जगतो जन्मोत्पादनं, क्षेम पालनं, क्षयः संहारस्तेषु कृत उद्यम उपक्रमो यैस्तान्, यदि नित्यमुक्तास्त| हिं कथं जगद्व्यापारपरा इत्येवंविरोधः । अत एव कथम्भूतान् वन्ध्यासुतसदृशानसत इत्यर्थः ॥ ७ ॥ अथ श्लोकद्वयेन तद्भक्तस्वरूपमाह - कृतार्था जठरोपस्थदुः स्थितैरपि दैवतैः । भवादृशान्निहुवते हाहा देवास्तिकाः परे ॥ ८ ॥ कृता० हेवीतराग! जठरमुदरमुपस्थेन्द्रियवर्गस्ताभ्यां दुःस्थितैर्विह्वलैरपि दैवतैः कृतार्थाः कृतार्थमन्या अन्ये जना भवादृशान् त्वत्सदृशान् गुणैरुत्कृष्टान् निह्नवतेऽपलपन्ति हाहेति खेदेऽपरे द्विजादयो देवास्तिका देवविषयास्तावन्त इत्युपहासः ॥८॥ पुष्पप्रायमुत्प्रेक्ष्य किञ्चिन्मानं प्रकल्प्य च । संमान्ति देहे गेहे वा न गेहेनर्दिनः परे ॥ ९ ॥ ayo वीतराग ! परे परवादिनः खपुष्पप्रायमाकाश कुसुमकल्पमुत्प्रेक्ष्य स्वचेतसि विचार्यैक एव हि भूतात्मा भूते भूते व्यवस्थित इत्यादि किञ्चिन्मानं प्रमाणं स्वचिन्तनसाधकं प्रकट्य प्रकाश्य च गेहेनर्दिनो गेहेशूराः सन्तो गेहे स्वदर्शने देहेऽपि मदोद्रेकेण न संमान्ति ॥ ९ ॥ For Private & Personal Use Only 66 अवचू. ॥७२॥ w.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy