SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ सामस्त्यं तन्महिमा कस्य सचेतनस्याश्चर्यकारणं न स्यात् , महिमा किंवि० ! कर्मक्षयोत्थः घातिकर्मणां क्षयेनोत्पन्नः, पुनः किं०! विश्वविश्रुतः त्रैलोक्यप्रसिद्धः ॥ १२॥ अनन्तकालप्रचितमनन्तमपि सर्वथा । त्वत्तो नान्यः कर्मकक्षमुन्मूलयति मूलतः ॥१३॥ अनं० हे वीतरागानन्तकालेनानन्तपुद्गलपरावतःप्रचितमुपार्जितमनन्तमपि कर्मकक्ष कर्मकाननं त्वत्तोऽन्योऽपरो हरिहरादिर्मूलतस्सर्वथा सर्वप्रकारैर्नोन्मूलयति न छिनत्ति ॥१३॥ तथोपाये प्रवृत्तस्त्वं क्रियासमभिहारतः । यदानिच्छन्नुपेयस्य परां श्रियमशिश्रियः ॥ १४॥ तथो० हे वीतराग! त्वं क्रियासमभिहारतः क्रियायाः पौनःपुन्येन नैरन्तर्येणोपाये चारित्ररूपे तथा प्रवृत्तः आदृतवान् | यथोपेयस्योपायसाध्यस्य परमपदस्य परां प्रकृष्टां श्रियं परमार्हन्त्यलक्षणामवाञ्छन्नप्यशिश्रियः प्राप्तवान्नपिगम्यः ॥१४॥ | मैत्रीपवित्रपात्राय मुदितामोदशालिने । कृपोपेक्षाप्रतीक्षाय तुभ्यं योगात्मने नमः॥१५॥ | पूर्वोक्तस्य सर्वस्य रहस्यभूतं मैत्र्यादिचतुष्कं प्रकाशयन्त आहुः-हे वीतराग! 'मा कापीकोऽपि पापानि, मा च भूत्कोऽपि दुःखितः। मुच्यतां जगदप्येषा मतिमैत्री निगद्यते ॥१॥' इत्युक्तलक्षणा मैत्री तस्याः पवित्रपात्राय निर्मलभाजनाय, मुदितः पुष्टो य आमोदः प्रमोदः 'अपास्ताशेषदोषाणां वस्तुतत्त्वावलोकिनाम् । गुणेषु पक्षपातो यः सः प्रमोदः प्रकीर्तितः॥२॥ इत्युक्तलक्षणस्तेन शालिने शोभमानाय 'दीनेष्वार्तेषु भीतेषु याचमानेषु जीवितम् । प्रतीकारपरा बुद्धिः कारुण्यमभिधीयते ॥३॥' ईदृशी कृपा कारुण्यं 'क्रूरकर्मसु निःशङ्क देवतागुरुनिन्दिषु।आत्मशंशिषु योपेक्षा तन्माध्यस्थ्यमुदीरित SACROSMOCRACAREECEOS SUSNESS Join Educati o nal For Private Personal Use Only Miw.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy