________________
कल्प
॥७०॥
वदसि - " गौशालको मङ्खलिपुत्रोऽयम्" इत्यादि । योऽसौ गोशालकस्तवाऽन्तेवासी स देवभूयं गतः । अहं तु अन्य तच्छरीरकं परीषह सहनसमर्थमास्थाय वर्षे " इत्यादिकं कल्पितं वस्तूग्राहयन् तत्प्रेरणाप्रवृत्तयोर्द्वयोः साध्वो:- सर्वानुभूतिसुनोः तेजसा तेन दग्धयोः भगवताऽभिडित:- " हे गोशालक ! कश्चिच्चौरो ग्रामेयकैः प्रारभ्यमाणः तथाविधं दुर्गममानः अगुल्या तृणेन वा आत्मानमावृण्वन्नावृतः किं भवति ? अनावृत एवासौ । एवं त्वमपि अन्यथा जल्पनेन आत्मानमाच्छादयन् किम् आच्छादितो भवसि ? स एव त्वं गोशालको यो मया बहुश्रुतीकृतः तदेवं माऽवोचः " । एवं भगवतः समभावतया यथावद् ब्रुवाणस्य तपस्तेजोऽसौ कोपात् निःससर्ज । उच्चावचाऽऽक्रोशैव आक्रोशयामास । तत्तेजश्च भगति अप्रभवत् तं प्रदक्षिणीकृत्य गोशालकशरीरमेवाऽनुतापयदनुप्रविवेश । तेन च दग्धशरीरोऽसौ दर्शिताऽनेकविक्रियः सप्तरात्रौ कालमकार्षीद् इति | १ |
तथा गर्भस्य - उदरसवस्य हरणम् - उदराऽन्तरसङ्क्रामणं गर्भहरणम् एतदपि तीर्थकराऽपेक्षया अभूतपूर्वं सद्भगवतो महावीरस्य जातम् इति अनन्तकालभावित्वादाश्चर्यमेव इति |२|
तथा स्त्री - योषित् तस्याः तीर्थकरत्वेनोत्पन्नायाः तीर्य - द्वादशाङ्गं सङ्गो वा स्त्रीतीर्थम् । तीर्थे हि पुरुषसिंहाः पुरुषवरहस्तिनः त्रिभुवनेऽपि अव्याहतप्रभुभावाः प्रवर्त्तयन्ति । इह त्ववसर्पिण्यां मिथिलानगरीपतेः कुम्भकमहार|जस्य दुहिता मल्ल्यभिधाना एकोनविंशतितमतीर्थकर स्थानोत्पन्ना तीर्थं प्रवर्तितवती इति अनन्तकालजातत्वादस्य भावस्य आश्चर्यता इति | ३| ' अभाविपरित 'त्ति अभव्या-अयोग्या चारित्रधर्मस्य पर्षेत्- तीर्थकरसमवसरणश्रोतृलोकः । श्रूयते हि भगवतो
Jain Eduernational
For Private & Personal Use Only
किरणावळी टीका
ग्या० २
॥७०॥
elibrary.org