________________
श्रीकल्प
॥ २२ ॥
Jain Edu
तपः करिष्यामि' इति ध्यानपरायणः तृणगृहे सुप्तः । इतथाऽवाप्तावसरया विमात्रा प्रत्यासन्नप्रदीपनादग्निकणमादाय तत्र निक्षिप्तः । स च तेन तपोध्यानपरायण एवं तृणगृहे सद्यो विपद्याsपुत्रिणः श्रीकान्तस्य पुत्रत्वेनोत्पेदे तदनु जातजातिस्मृतिरष्टमतपसाऽवाप्तमूच्छ मृत इति धिया निजकै भूमौ निक्षिप्तः । अथ च यावन्न म्रियते तावत् सञ्जीवयामि" इति ध्यात्वा धरणेन्द्रः स्वप्रभावादरक्षत् | श्रीकान्तस्तु पुत्रमृत्युश्रवणेन सञ्जातहृदयसङ्घट्टः क्षणमात्रा देव मृत्युमाप । ततोऽपुत्रिणो धनाऽऽदित्सया राज्ञः पुरुषानागतान् रणेन्द्रो निषेधयत् । तदनुचरै विज्ञप्तो राजाऽपि स्वयमागत्य घरणेन्द्रमुवाच- 'किमिति प्रतिषेधयसि ?' । धरणेन्द्रोऽप्युवाच 'राजन् ! त्वमपि कथं गृह्णासि ?' राजाऽवदद् - राजनीतिरियम् अस्माकं 'यदपुत्रिणो धनं गृह्यते' । ततो धरणेन्द्रो वभाण - 'अस्य पुत्रो जीवन्नेवाऽस्ति' । क्वाऽस्ति ?" इति राज्ञोके - ' क्षितौ निखातोऽस्ति' इत्यभाणि धरणेन्द्रेण । ततस्तं समुत्खन्याssनीय समक्षं च सर्वेषां मातुर्दत्तः । धरणेन्द्रोऽपि स्वकीयस्वरूपं प्रादुष्कृत्य तस्य पूर्वंभवादिवृत्तान्तं राज्ञे निवेद्य बालायच हारं दत्त्वा तिरोदधे । राजा च तद्वृत्तान्तविस्मितः 'अयं यत्नेन परिपाल्य' इत्यादिश्य स्वगृहं जगाम श्रीकान्तस्य च मृत्युकर्मणि कृते निजकैः शिशोः 'नाग केतु:' इति सञ्ज्ञा ददे सञ्जज्ञे । ततःप्रभृति अयं अमीचतुर्दश्योश्चतुर्थ, चतुर्मास षष्ठं पर्युषणायां चाऽष्टमं कुर्वाणो यौवनेऽपि जितेन्द्रियो जिनपूजा-साधूपासनपरायणः पौषधाद्यनुष्ठानतत्पर एवाsafaष्ठते । एकदा च सज्जनोऽपि चौरकलङ्कृतो विजयसेनेन हतो दुर्ध्यानेन मृतो व्यन्तरीभूयावधिना विज्ञाताऽऽत्मीयवृत्तान्तोदृश्यरूपवदागत्य सभाssसीनं राजानं पाणिना आहत्य रुधिरवमन्तमेव भूमावपातयत् । सभालोकोऽपि 'किमेतकम् ?' इति जातः । ततश्च नगरप्रमाणां शिलां विकृत्य गगनस्थो दुर्गिरा लोकं भापयामास । नागकेतुस्तु चतुर्विधसङ्घ जिनबिम्बाऽऽगमौ
ternational
For Private & Personal Use Only
किरणावली टीका
व्या० १
॥ २२ ॥
library.org