________________
॥३८७॥
'तेरसण्डं मासाणं, छब्बीसहं पक्खाणं तिन्निसयनउइराइंदियाणं' इत्यागमपाठवलेनैव पञ्चभिरपि मासैः चतुर्मास्येव, त्रयोदशमासैश्च संवत्सर एव स्वीक्रियते इति चेत् ? । चित्रं भवद्वदनेऽपि अमृतबुदबुदोद्भवः । यतः-स्वयमेवायातोऽसि अस्मदभिमतमार्गे । नहि क्वापि आगमे-'भद्दवयसुद्धपंचमीए पज्जोसविज्जइ' ति पाठवत् 'अभिवड्डिअवरिसे सावणसुद्धपंचमीए पज्जोसविज्जइ' त्ति पाठ उपलभ्यते । तस्मान्मुश्च मुश्च श्रावणपर्युषणापर्वगर्वम् । एवमन्येष्वपि स्थविरनवकल्पविहारादिलोकोत्तरकृत्येषधिको मासो न विवक्षितः। 'आसाढमासे दुपया' इत्यादि सूर्यचारेऽपि तथैव । तथा लोकेऽपि शुद्धवर्षान्तरभाविषु नियतदिनप्रतिबद्धाऽक्षततृतीय-दीपोत्सवादिषु पर्वस्वपि अधिकमासो नाऽधिक्रियते । मासानियतान्यपि कानिचित् शोभनानि कृत्यानि-'वर्द्धितमासो नपुंसक' इति कृत्वा त्यतानि, इति ज्योति शास्त्रेषु सुप्रतीतं । ननु तर्हि प्रतिदिवसाऽनुष्ठेय-साधुदान-जिनपूजाद्यनुष्ठानस्य पर्वाऽनुष्ठेय-पाक्षिकप्रतिक्रमणादेश्च प्रयासमात्रतैवाऽऽपद्यते । वर्द्धितमासस्य नपुंसकत्वेन तत्कृत्यस्यापि अकिञ्चित्करत्वादिति चेत् ? । अहो ! वैदग्ध्य-नहि नपुंसकोऽपि स्थापत्योत्पत्तिं प्रत्यकिश्चि- 2 करः सन् सर्वकार्य प्रत्यकिश्चित्कर एव । तद्वदधिकमासोऽपि न सर्वत्राप्रमाणं, किन्तु यत्कृत्यं प्रति यो मासो नामग्राहेण नियतः, तत्कृत्यं तस्मिन्नेव मासि विधेय, नाऽन्यत्र, इति विवक्षया तिथिरिख न्यूनाधिकमासोऽप्युपेक्षणीयः। अन्यत्र तु गण्यतेऽपि । तथाहि-विवक्षित हि पाक्षिकप्रतिक्रमणं । तच्च-चतुर्दश्यां नियतं, सा च यदि अभिवदिता तदा प्रथमां परित्यज्य
द्वितीयाऽधिकर्तव्या । दिनगगनायां त्वस्या अन्यासां वा वृद्धौ सम्भवन्तोऽपि पोडश दिनाः पञ्चदशैव गण्यन्ते एवं क्षीणायां हैं| चतुर्दशाऽपि दिना पञ्चदशैवेति बोध्यम् । तद्वदत्रापि विवक्षितं कृत्य सांवत्सरिकप्रतिक्रमणादिकं तच्च नियतं भाद्रपदे ।
उनकावर
MORROR
॥३८७
Jain Educa
t
ional
For Privale & Personal Use Only
U
W
ary.org