SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावर ॥३३६॥ टीका व्या०। यतः-'माइज्ज घडसहस्सा अहवा मायंति सागरा सव्वे । जस्सेयारिसलद्धी सो पाणिपडिग्गही होइ' त्ति ॥१॥ अत्र कविघटना-'स्वाम्याह दक्षिणं हस्तं कथं भिक्षां न लासि भोः ! । स प्राह दातृहस्तस्याधो भवामि कथं ? यतः ॥२॥ पूजाभोजनदानशान्तिककलापाणिग्रहस्थापना चोक्षप्रेक्षणहस्तकार्पणमुखव्यापारबद्धस्त्वहम् । इत्युक्त्वा दक्षिणे करे स्थिते वामो ब्रूते-- वामोऽहं रणसम्मुखाङ्कगणना वामाङ्गशय्यादिकृत द्यतादिव्यसनी त्वसौ, स तु जगौ, चोक्षोऽस्मि न त्वं शुचिः ॥३॥ तत:- 'राज्यश्रीर्भवताऽजिताऽर्थिनिवहस्त्यागैः कृतार्थीकृतः सन्तुष्टोऽस्मि गृहाण दानमधुना तन्वन् दयां दानिषु। इत्यब्दं प्रतिबोध्य दक्षिणकरं श्रेयांसतः कारयन् प्रत्यग्रेचरसेन पूर्ण ऋषभः पायात्स वः श्रीजिनः' ॥४॥ श्रेयांसस्य दानावसरे- नेत्राम्बुधारा वाग्मुग्धधारा धारा रसस्य च । स्पर्द्धया वर्द्धयामासुः श्रीधर्म, तदाशये ॥५॥ ततः- तेन भगवान् सांवत्सरिकतपःपारणकं कृतवान् । तत्र पञ्चदिव्यानि प्रादुर्भूतानि । तद्यथा-वसुधारावृष्टिः, चेलोत्क्षेपः, व्याम्नि देवदुन्दुभिः, गन्धोदककुसुमवृष्टिः, आकाशे-'अहो ! दानम्' इति घोषणं चेति। तत्र वसुधाराप्रमाणम् 'अद्धतेरसकोडी उक्कोसा तत्थ होइ वसुहारा । अद्धतेरसलक्खा जहनिआ होइ वसुहारति ॥ (आव. नि. ३३२) ततः-देवसन्निपातं दृष्ट्वा राजप्रमुखः अखिलोऽपि लोकः ते च तापसाः श्रेयांसभवनमुपागताः । तान् श्रेयांस: प्रज्ञापयति-'भो! जनाः सद्गतिलिप्सया एवं भिक्षा प्रदीयते' । लोकः पृच्छति-'कथं भवता ज्ञातम् ?' । यत्स्वामिनोऽप्येवं भिक्षा प्रदीयते । सोऽवक्-'जातिस्मृत्या'। मम तु स्वामिना सह अष्टभवसम्बन्धः पूर्वमासीत् । कौतुकाजनः MALAIHAR ॥४॥३३६। Jain Education mational For Private & Personal use only wytbrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy