________________
॥२७९॥
पर्यङ्कः-पद्मासनं तेन निषण्णः-उपविष्टः उपविष्टजिनप्रतिमेव इत्यर्थः। (पणपन्नं अज्झयणाई कल्लाणफलविवागाई पणपन्न अज्झयणाई पावफलविवागाई) पश्चपश्चाशदध्ययनानि कल्याण फलविपाकानि, पञ्चपञ्चाशदध्ययनानि पापफलविपाकानि (छत्तीसं अपुढवागरणाई वागरित्ता) पत्रिंशदपृष्टव्याकरणानि च व्यागीर्य-कथयित्वा (पहाणं नाम अज्झयणं विभावेमाणे विभावेमाणे) प्रधानं नामाऽध्ययनं मरुदेवाऽध्ययनं विभावयन् श्रीवीरः (कालगए वइकंते समुज्जाए छिन्नजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिनिव्वुडे सव्वदुक्खप्पहीणे) कालगतः यावत् | सर्वदुःखप्रक्षीणः ॥१४७॥
['समणस्स' इत्यादित 'इति दीसइ' ति पर्यन्तम् ]
तत्र-(समणस्स भगवओ महावीरस्स जाव सम्वदुक्खप्पहीणस्स) <श्रमणस्य भगवतो महावीरस्य यावत् सर्वदुःखप्रक्षीणस्य > (नववाससयाई वइकताई) इतः सूत्रादारभ्य अन्तरालकालाऽभिधायकसूत्रेषु सत्र षष्ठयाः पञ्चम्यर्थत्वेन निर्वाणाद् इति अध्याहारेण वा व्याख्येयम् । ततश्च श्रीमहावीरस्य निर्वाणान्नववर्षशतानि व्यतिक्रान्तानि-व्यतीतानि (दसमस्स य वाससयस असीइमे संवच्छरे काले गच्छइ) दशमस्य वर्षशतस्य अस्या वाचनाया इति टिप्पनकवचनाद् , अस्याः पुस्तकवाचनायाः पर्षद्वाचनायाः वाअयम् अशीतितमः संवत्सरः कालो गच्छति इति अक्षरार्थः। भावार्थस्तुयद्यपि तथाविधार्थावबोधकव्यक्तवाक्याऽनुपलम्भाद् विवृत्य वक्तुमशक्यः। तथापि ग्रन्थान्तरानुगतयुक्त्या किश्चिदुच्यते ।
तथाहि-एतत् सूत्रं 'श्रीदेवर्द्धिगणिक्षमाश्रमणैः प्रक्षिप्तम्' इति क्वचित् पर्युषणकल्पावचूनौँ । तदभिप्रायेण श्रीवीरनिर्वा
AAAAAAA
॥२७९॥
JainEdubi
For Private & Personal use only
womdabrary.org