SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ तथा राजा तावदुदितोदितकुलप्रसूतो बद्धमुकुटराज्ञाऽभिषिक्तः सेनापति-पुरोहित-श्रेष्ठय-मात्य-सार्थवाहलक्षणैः प्रश्चभिः साई राज्यं भुञ्जानश्चक्रवादिस्तस्य यः पिण्ड:-अशनादिचतुष्कं वस्त्रं पात्रं कम्बलं रजोहरणं चेत्यष्टविधः । स च प्रथमचरमतीर्थकृत्तीर्थयोाघातादिदोषदूषितवादकल्प्यः। यदाह 'मुदितादिगुणो राया अहवहो तस्स होइ पिंडुत्ति । पुरिमेयराणमेसो वाघायाईहिं पडि कुटो' ।। ति (पश्चा० ८१४) । व्याघातादयः पुनरेवम् 'ईसरपभिई हि तर्हि वाघाओ खद्धलोहुदाराणं । दसणसंगो गरहा इयरेसिं न अप्पमायाओ' ॥१॥ (पश्चा० ८१५)। अस्य गाथार्थ:-ईश्वरप्रभृतिभिः-युवराजतलवरमाडम्बिकादिभिः सपरिकरैः प्रविशद्भिनिर्गच्छद्भिश्च तस्मिन् राजकुले व्याघात:-स्खलना साधोस्तत्र प्रवेशनिर्गमयोः । ततश्च भिक्षास्वाध्यायादीनामपि व्याघातः । अथवा सम्मादमङ्गलबुद्धधा वा कायपात्रप्रभृतीनां व्याघातः-हननं स्यात् । 'खद्धलोह' ति खद्धे-प्रभूतेऽन्नादौ लभ्यमाने यो लोभ:-लुब्धता । तथा उदाराणां-हस्त्यश्वस्त्रीपुरुषादीनां दर्शने-अवलोकने सङ्ग:-अभिष्वगः स्यात् । ततश्चात्मविराधनादि चारकचोर-कामुकादिसम्भावनया राजकोपात् कुलगण सङ्घायुपघातश्च स्यात् । तथा गाँनिन्दा यथा-अहो! एते गहणीयमपि राजप्रतिग्रहं स्वीकुर्वन्ति'। गहणीयता च तस्य स्मातेरेवमूचे'राप्रतिग्रहदग्धानां ब्राह्मणानां युधिष्ठिर!। स्विन्नानामिव बीजानां पुनर्जन्न न विद्यते' ॥१॥ अथवा 'अनभिष्वङ्गा मुनयो मता' एते त्वष्टकल्याणवत् कथं गजाऽश्वादिषु सङ्गं कुर्वन्ति ? इत्येवंरूपा । SAECRECARSAARCOACACAN Jain Educ a tional For Privale & Personal use only wwur jantanorary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy