SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ४६/पञ्च-परमेष्ठि-गुणमालायाम् वचो नो गुप्तं चेज्जगति कमनथं न जनयेत् ? सुगुप्तं श्रेयांसि प्रवितरति तस्माद् . वशिवरैः। वचोगुप्त्या वाचं यमवचनमाधारि ननु यै र्मुनीनामेतेषां चरितममलं ही विजयते // 106 // .. सौरभवृत्तिः - जगति-संसारे / वचः-वचनं / गुप्तं-रक्षितं, संयतं / नो चेत्न भवेत् चेत् / कम्-किं रूपं / अनर्थ-अनिष्टं / न जनयेत्-नोत्पादयेत् / तदेव वचः। सुगुप्त-सुसंयतं सत् / श्रेयांसि-भद्राणि / प्रवितरति-पूर्णतया ददाति / तस्मात्तत्कारणात् / यः वशिवर:-संयतेन्द्रियः / वचोगुप्त्या-वचनानां सत्प्रयोगेण / यमवचनम्-संयतवचनं। वाचंयम इति नाम / ननु-निश्चयेन / आधारि-आसमन्ताद् अधारि-धारितम् / अस्तीति / एतेषां मुनीनाममलं चरितं ही विजयते जयवद्वर्तत इति // 106 // . . ... .. शरीरं स्वाधीनं नियतमशरीराय घटते , तथाऽनन्तानन्तं जनयति शरीराणि जगति / ततो गुप्त्या कामं सततमिह रक्षन्ति किल ये , ... मुनीनामेतेषां चरितममलं ही विजयते // 107 // - सौरभवृत्तिः- स्वाधीनं-स्वायत्तं / शरीरं-वपुः। वस्तुतः। अशरीरायमोक्षाय / घटते-भवति / तथा-किञ्च / अस्वाधीनं शरीरं / जगति-लोके / अनन्तानन्तं-अपरिमितानि / शरीराणि-वधूंषि / जनयति-उत्पादयति / ततः-तस्मात् / येमुनिगणाः। किल-निश्चयेन / सततं-निरन्तरं। कायं-शरीरं। गुप्त्या-कायगुप्त्या.. रक्षन्ति-रक्षणं कुर्वन्ति / एतेषां मुनीनाममलं चरितं ही विजयते / / 107 / / बुभुक्षाधान द्वाविंशतिमपि सहन्ते परिषहान , प्रमष्टा ते ननं परमपदसौख्यं विदधते / ततो धयं घुत्वा परिषहवलं जितमलं, मुनीनातेषां चरितममलं हो विजयते // 108 // सौरभवत्तिः- बुभुक्षाद्यान्-क्षधाप्रभृतीन् / द्वाविंशति-द्वयुत्तर-विंशतिसंख्याकान् / परिषहान्-तन्नामकव्रतविशेषान् / सहन्ते-क्षमन्ते / ते-परिवहाः / प्रमृष्टाःसुपालिताः। नन-निश्चितरूपेण / परमपदसौख्यं मोक्षसुखं / विदधते-करोति, ददाति / ततः तस्मात् / यः-मुनिगणः / धर्य-शान्ति / घृत्वा-धारयित्वा / अलं-यथास्यात् तथा। पूर्णरूपेण / परिषहबलं-परिषह-सन्यं / जितम्-विजितम् / एता मुनीनां विमलं चरितं ही विजयते / / 108 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy