________________ पञ्च-परमेष्ठि-गुणमालायाम्/३९ Simpure धयित्वा मौनं ये निधुवनमघानां विदधते , मुनीनामेतेषां चरितममलं ही विजयते // 86 // सौरभवत्तिः- येषां-मुनिवराणां / शास्त्रे-आगमे / रतिः-प्रीतिः / इहसंसारे / तरला-भक्तिमती / जागति-वर्तते / विञ्च / रतिप्राया-अत्यन्तं रमणीया रतिरूपा / वामा-नारी / खलु-निश्चयेन / स्वप्न विषया-स्वप्नस्य विषयतां गताऽपि / न-नैव / ये-मुनयः। मौनं-मूकरूपतां / श्रयित्वा-श्रित्वा, अघानां-पापानां, प्रायश्चित्तानाम् / निधुवनं-समापनं / विदधते-कुर्वन्ति / एतेषां मुनीनाममलं चरितं ही विजयते / / 86 / / सदा सक्ता ग्रन्थे तदपि भुवि निर्ग्रन्थवृषभा, निधौ बाह्ये चान्तश्चतुरधिदशाङ्क परिग्रहे / न ये सम्मछन्ति प्रहतममता गीतसमता , मुनीनामेतेषां चरितममलं ही विजयते // 87 // सौरभवृत्तिः- ये-मुनिवराः / सदा-निरन्तरं / ग्रन्थे-शास्त्रे / सक्ताःसंलग्नाः / तदपि-तथापि / भुवि-भूमी। निर्ग्रन्थवृषभाः-श्रेष्ठाः निर्ग्रन्थसाधवः / गण्यन्त इति शेषः / तथा, निधौ-नवप्रकारके / बाह्य-वहिर्भूते / तथा / अन्तश्चतुरधिदशाङ्के-चतुर्दशमितान्तःस्थे / परिग्रहे-संग्रहे / येषां प्रहतममता-प्रहता-प्रणष्टा, ममता-ममत्वं अस्तीति शेषः / एवं विधाः / ये-मुनयः। न-नव / सम्मूछन्तिमोहं न प्रप्नुवन्ति / तथा ते गीत-समताः-समत्वेन प्रख्याताः सन्ति / एतेषां मुनीनाममलं चरितं ही विजयते // 87 // समासक्तं येषां हृदयमिह जीवावनविधौ , ततः सन्त्यक्तं येरशनमथ पानं निशिकृतम् / निपोतं पोयषं समयजनितं यरविरतं , मुनीनामेतेषां चरितममलं ही विजयते / / 88 // तौरभवत्तिः- येषां-मुनिवराणां / हृदयं-स्वान्तं / इह-अस्मिन् संसारे / जीवावनविधी-जीवानां प्राणिनां, अवनस्य-रक्षणस्य यो विधिविधानं, तस्मिन् प्राणिरक्षण-कर्मणि / समासक्तं-संलग्नं / ततः-तस्मात् / निशिकृतम्-रात्री क्रियमाणं / अशनं-भोजनं / अथ-किञ्च / पानं-जलपानं / सन्त्यक्तम्-परित्यक्तम् / यः-मुनिवरः / अविरतं-निरन्तरं / समयजनितं-शास्त्ररुत्पन्नं / पीयूषं-अमृतं / निपीतं-पानं विहितम् / एतेषां-ईदृशानां / तेषां / मुनीनां-साधूनां / अमल-निर्मलं / चरितं-चारित्र्यं / ही-अहो / विजयते-सर्वोत्कर्षेण जयं प्राप्नोति // 88 // TTTTI P.P.AC.Gunratnasuri M.S. . Jun Gun Aaradhak Trust