________________ पञ्च-परमेष्ठि-गुंणमालायाम्/३७ मतिज्ञानं सम्यक् श्रुत मवधि यस्मिन्नधिकृतं , मनःपर्यायं केवलमपि यथारूपमुदितम् / अदो नन्दीसूत्रं चरणकरणा ये प्रगुणयन्त्युपाध्यायान् बन्दे विनय शतांस्तानभिमतान् / / 81 // / सौरभवृत्तिः - यस्मिन्-नन्दीसत्र नामके सूचे / मत्तिज्ञानं / श्रुतं श्रुतज्ञानम् / अवधि-अवधिज्ञानं / सम्यक्-समीचीनतया / अधिकृतं-अधिकाररूपेण / तथा, मनःपर्यायं-मनः पर्ययज्ञानं / केवलं केवलज्ञानम् / अपि यथारूप-यथार्थरूपेण / उदितम्-णितम् अस्तीति / अदः तत् / नन्दीसूत्रं-एतन्नामकं सूत्रम् / चरणकरणा:-चरणसप्तति-करणसप्ततिधारकाः / ये-उपाध्याय-प्रवराः / प्रगुणयन्तिप्रकृष्टतया गणयन्ति / तान् अभिमतान् विनयवशितान् उपाध्यायान् वन्दे / / 81 / / चतुर्धा निक्षेपो जिनवर-विशिष्टागम-समा-- गमे हेतुर्गीतः प्रथितविभवो यत्र विशदम् / अनयोगद्वारं वदति गहनं येऽवगमयन्त्युपाध्यायान् वन्दे विनयवशितांस्तानभिमतान् // 82 // सौरभवृत्तिः- यत्र-यस्मिन्, अनुयोगद्वार-सूत्रे / जिनवर-विशिष्टागमसमागमे-जिनेश्वर-भगवभाषितानां विशिष्टागमानां सम्प्राप्तये / चतुर्धा-चतुविधः / निक्षेपः-नामस्थापना-द्रव्य-भावरूप-चतुः प्रकारको निक्षेपः / प्रथितविभवःविस्तृत-वैभवः / विशदम्-यथा स्यात् तथा। हेतुः-कारणं विद्यत इति / गीत:वर्णितः। ईदृशं तत् गहनं-गभीरं। अनुयोगद्वार-सू-एतन्नाम्ना सुप्रसिद्ध। ये. उपाध्याय-प्रवराः / अवगमयन्ति-सम्यगववोधयन्ति / तान् अभिमतान् विनयवशिलान् उपाध्यायान् वन्दे / / 82 // - . अथ-साधुगुणमाला मनो - वाक्कायर्येऽसुहनन-विरामात्मकमहाव्रतं चाद्यं धृत्वाऽभयमिह सुरक्षन्ति निपुणम् / प्रवर्तन्ते नित्यं निजनियतसाध्ये यतनया , मुनीनामेतेषां चरितममलं ही विजयते // 83 / / P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust