________________
कुट्टनीमतम् ।
हस्वायासश्वासान् मुञ्चन्ती पुलकदन्तुरशरीरा। स्विद्यत्सकलावयवा प्रकरिष्यसि रागद्धये पुंसाम् ॥ १५६ ॥
(युग्मम् ) अव्यक्तध्वनयः । [दंशे दशनैः इति शेषः दशनच्छेद्ये । तत्स्थानानि तु-" कक्षोदरस्तनयुगं च कपोलभागौ । कण्ठं च दन्तपरिपीडनसत्पदानि ॥ " (२।७३) इति शृंगारदीपिकायाम् । नायकेन तत्प्रयोगे नायिकाया हुंकृतिः स्वभावतो भवति । तथा च अनङ्गरङ्गे-"हिंकारसीत्कारविशेष उक्तो दन्तार्पणे कामकलाविदग्धैः ॥” इति (९।३०)। आमर्दै स्तनादीनां बलात् निष्पीडने, यथायोग्यं नानाप्रकाराणि कण्ठशब्दितानि, तानि च " परभृतलावक ” (१५७) इत्यादिना स्वयमेव वक्ष्यति ॥ नखविलिखने नखक्षते । तत्स्थानानि तु-"कक्षाकण्ठकपोलं च नाभिः श्रोणिकुचौ तथा। भगस्कन्धौ कर्णमूले त्रयोदश नखालयाः ॥” इति स्मरदीपिकायाम् । नखक्षता रागाधिक्ये प्रायः नायकेनैव क्रियन्ते । तत्र नायिकायाः सीत्कृतिः-नखजपीडानुभवसूचकं सीच्छब्दाभिनेयं शब्दितं । सीत्कृतिहुंकृतीत्यादिशब्दा: तत्तद्धनीनां अनुकाराः । सूक्ष्मेक्षिकावद्भिः तेषां भेदाः प्रतिपादिताः । हुंकृतिः प्रतिषेधार्थिका कपोतरुतवच्च, तथा च नैषधीयचरिते-" आलीव पश्य प्रतिषेधतीयं कपोतहुंकारगिरा वनाली ॥" ( ३ । १४) इति; यद्वा भृङ्गगुञ्जावत् , यथा “क्क न भ्रमरयोषितां गलदहंकृति - कृतिः । " ( १०६ ) इति शंभुकृतान्योक्तिमुक्तालतायाम् । सीत्कृतविषयं कस्यचित् पद्यं, " समादिष्टं शिष्टैरसममिह यनिर्वृतिपदं, पुनर्दग्धोऽप्याशु प्रभवति यतो मन्मथतरुः । श्रुते यस्मिन्कामी भवति कृतकृत्यो रतिमुखे, स सीत्कारः पायादमृतविजयी सुन्दरदृशाम् ॥” इति । सीत्कृतिलक्षणं तु-"यूनोः प्रहणनाजातपीडाव्यक्तिकृते भवेत् । गलादिजातो यः शब्दविशेषस्तद्धि सीत्कृतम् ॥” इति रतिरत्नप्रदीपिकायाम् । तच हिंकृतादिभेदेन सप्तदशधा तत्र कथितम् ॥ यद्वा, “वंशविस्फुटनवच्च सीत्कृतम् ।" इति रतिरहस्ये ( १० । ५६)। आघातेषु-स्कन्धौ शिरः स्तनान्तरं पृष्ठं जघनं पार्श्वे इति तत्स्थानानि, तत्र अपहस्तकादिचतुर्विधभेदेन प्रहणनेषु ताडनेषु; उल्बणं स्फुटं, कणितं नूपुराणामिव ध्वनिः, यथा विद्धशालभञ्जिकायां-" अमन्दमणिनूपुरवणनचारुचारीक्रमम् ” इति । १५५ ॥ ] [ हस्वान् लघून् वारंवारमित्यर्थः, ] आयासः श्रमः, तदभिव्यञ्जकश्वासान् । ] दन्तुरं व्याप्तम् । अवयवा अङ्गानि । [हुंकृत्यादेः प्रक
१५६. प्रभविष्यसि ( गो)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com