SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ १६ दामोदरगुप्तविरचितं वृश्चिकरञ्जितकररुहकरमूलनिबद्धशङ्खचक्रेण । प्रथमवयस्त्वं भजता ताम्बूलकरङ्क-वाहिनाऽनुगतः। ६७॥ (कुलकम्) श्रेष्ठिवणिग्विटकितवप्रधानरङ्गस्य सुमहतो मध्ये | शूलापालस्थापितकतिपयबद्धोरुपीठिकासीनः || ६८ ॥ उत्सङ्गार्पितखङ्गै रयथातथभाषिभिर्मदौद्धत्यम् । बिभ्राणैरनुजीविभिरधिष्ठितः पञ्चषैः पुरुषैः ॥ ६९ ॥ चतुरतर सेवकार्पित पृष्ठ परिक्षिप्तपूर्वदेहार्धः । अन्तर्धृतताम्बूलप्रोच्छून कपोलकलितकरपर्णः ॥ ७० ॥ अनपेक्षितप्रसङ्गः पुनः पुनः पठति सोन्नतभ्रूकः । गाथाश्लोकप्रायं भावितचेता यथातथाऽधीतम् ॥ ७१ ॥ 66 र्मितप्रान्तमध्यभागकाश्मीररञ्जितदुकूलधारीत्यर्थः । काचवर्तकाः काचमणयः ॥ ६६ ॥ वृश्चिकः कुरबक:, [ रक्तपुनर्नवा वा यस्याः पत्रपुष्पाणि रक्तवर्णानि भवन्ति, वृश्चिकस्तु द्रुणे राशौ शूककीटे तथौषधे । ” इति विश्वः ।] शङ्खचक्रादि च हीनदृष्ट्याद्यवरोधाय धार्यते ॥ ६७ ॥ [ इत: षडशीतितम्यार्यापर्यन्तं भट्टपुत्त्रस्य नानाविधचेष्टावर्णनेन तस्य मौर्व्यमिथ्याभिमानभीरुतादयो वर्ण्यन्ते ते यथायथमूह्या: । ] श्रेष्ठी धनिक:, [ विटः कामतन्त्रकलाकोविदः, यद्वा विट् शब्दे इति धातोः नायकनायिकयोः सन्देशं परस्परं विटति कथयति इति विट: । कितवः द्यूतकृत् धूर्तो वा । ] श्रेष्ठयादयः प्रधाना अधिका यत्र तादृशस्य रङ्गस्येत्यर्थ । रङ्गः [ रज्यते जनोऽस्मिन् इति ] नृत्यशाला । शूलापाला वेश्याध्यक्षाः । [ शूलपालः इत्यपि शब्दः; तथा च वासवदत्तायां विन्ध्याटबीवर्णने “ शूलपालचित्तवृत्तिमिव फलितगणिकारिकां " इति प्रयोगः शिवरामादिभिः कैश्चित् टीकाकारैः गृहीतः ।] कतिपयैः द्वित्रैः, बद्धा आनीय धृता, उरुपीठिका विपुलं आसनम् ||६८॥ [ अनुजीविभिः सेवकैः । ] पञ्च वा षड् वा पञ्चषाः, तैः रक्षाधिकृतैः, अधिष्ठितः अनुगतः ॥ ६९ ॥ [ पृष्ठं पश्चाद्भागावष्टंभार्थं तूलादिमयः वस्तुविशेषः, (तकिआ ) इति भाषायाम् । ] प्रोच्छूने प्रोत्फुल्ले, कपोले, कलितं परामृष्टं, करपर्ण करपल्लवो येन; कलितं धृतं करे पर्ण येन इति वा ॥ ७० ॥ अनपेक्षितप्रसङ्गः ६८ कतिपयवनोरु ( प ) बन्धोरु (गो२ ) ६९ महौद्धत्यम् ( प ) पूर्वदेहांश: ( गो. का. ) । ताम्बूलश्चच्छून ( गो . का . ) ताम्बूल: प्रोत्फुल्लकपोलगलित ( गो २ ) ताम्बूलप्रोत्फुल्लकपोलगलित ( कापा ) । ७१ सोन्नतिभ्रूकः ( प ) | गाथां श्लोकप्रायां धीताम् ( गो . का . ) । यथायथाधीतम् ( प. ) ७० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy