SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ दामोदरगुप्तविरचितं यतिगणगुणसमुपेता या नित्यं छन्दसामिव प्रचितिः । वनपङ्किरिव ससाला, तुरुष्कसेनेव बहुलगन्धर्वा ॥१०॥ तारागणोऽकुलीनः, प्रियदोषा यत्र कौशिकाः सततम् । गये वृत्तच्यवनं, परगृहरोधस्तथाऽक्षेषु ॥११॥ श्लेषोपमयैव तामेव वाराणसी प्रशंसति । श्लेषोपमायां श्लेषपदं अर्थश्लेषपरम् । शब्दश्लेषे तु समानोपमा । ] मत्तवारण: प्रासादप्रावारकः, [" प्रासादवीथीनां वरण्डकः इति तट्टीका (=कुट्टनीमतटीका)" इति शब्दकल्पद्रुमः । यद्वा, "मत्तवारणमिच्छन्ति दानक्लिन्नकरे द्विपे । महाप्रासादवीथीनां वरण्डे चाप्यपाश्रये ॥ " इति विश्वप्रकाशः । "वरण्डकस्तु मातङ्गवेद्यां यौवनकण्टके ।" इति विश्वलोचने । तेन प्रासादश्रेणिपुरोवर्तिन्यो बहदासनवेद्यो मत्तवारणाः । ] पक्षे मत्तगजः । बहुलनिशीथवतीव कृष्णपक्षनिशेव, “ बहुला नीलिकायां स्याटेलायां गवि योषिति । कृत्तिकासु स्त्रियां, भूम्नि विहायसि नपुंसकम् ॥ पुंस्यग्नौ कृष्णपक्षे च वाच्यवत् प्राज्यकृष्णयोः।" इति मेदिनी। धिष्ण्यैः वेश्मभिः, पक्षे नक्षत्रैः; उपशोभिता । " धिष्ण्यं स्थाने गृहे भेऽनौ " इति अमरः ॥ ९॥ यतीनां संन्यासिनां, गणः समूहः, तद्गुणेन शान्त्यादिना; पक्षे-यति: पाठविच्छेदस्थलं, गणाश्च "धीश्रीस्त्री म्" इत्यादिना पिङ्गलनिर्दिष्टा मगणाद्या अष्टौ, तद्गुणेन योग्यस्थाननिवेशनरूपेण, समुपेता। छन्दसां प्रचितिः छन्दःशास्त्रम् ॥ ससाला सप्राकारा, " प्राकारो वरणः सालः" इति अमरः, पक्षे सवृक्षा । 'सशाला' इति तालव्यमध्यकपाठोऽपि, तत्र पाठालयसहितेत्यप्यर्थः काश्या विद्याप्रधानस्थानत्वात् । " तालव्यो नृपझषयोः शालो वृक्षे वृतौ द्रुभेदे च । तालव्यदन्त्य उक्तस्तथा स्त्रियां वृक्षशाखायाम् ॥” इति ऊष्मविवेकः ॥ तुरुष्कदेशराजसेनेव, बहुलगन्धर्वा बहुला बहवो गन्धर्वा यस्याम् , गन्धर्वा गायकाः, पक्षे अश्वाः तद्देशस्य प्रसिद्धाश्वत्वात् ; "गन्धवस्तु नभश्चरे । पुंस्कोकिले गायने च मृगभेदे तुरङ्गमे ॥” इति हैम:(2)। [तुरुष्कदेशः सम्प्रति लोके तुर्कीस्थान इति प्रसिद्धः ] ॥ १० ॥ [ अत्र (११-१६) आर्यासु श्लेषमुखेन व्यतिरेकव्यञ्जनया वर्णनीयाया नगर्या उत्कर्षो ध्वन्यते । एषु श्लेषमूलकः परिसंख्यालंकारः; तदुक्तं अलंकारसर्वस्वे-" एकस्यानेकप्राप्तावेकत्र नियमनं परिसंख्या।" "श्लेषसंपृक्तत्वमस्या अत्यन्तचारुत्वनिबन्धनम् ।" इति च तत्रैव स्पष्टम् ॥] तारागणो नक्षत्रसमूहः, अकुलीनः तस्य आकाशस्थितत्वात् न कौ पृथिव्यां लीनत्वम् । " गोत्रा कुः पृथिवी पृथ्वी " इति अमरः । न तु कश्चन असत्कुलोत्पन्नः ॥ १० सशाला ( गो २ का) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy