SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ आर्याङ्कः ९७५ स कथं न १ स जयति ८२० सविवादे परलोके ९७ हृदयमधि० ४११ स्वस्ति श्रीकुसुम • प्रतीकम् सूचिपत्रम् । ४७३ स्थलम् सुभा० १५६०, शा.प. ३३५३ कवीन्द्रवंचनसमुच्चये । पंच० १ १३९ का.प्र.१०।४५२, अलंकार सर्वस्वे च । अमरकोशटीकायां क्षीरस्वामिकृतायां (३ । २४१ ), गणरत्नमहोदधिवृत्तौ (१६) ( ई.सं. ११४१ ) च । वेणीदत्त संदृब्धपद्यवेण्यां ( ई. सं. १६४४१) च एतद्द्वता आर्या वर्तन्ते । कविकंठाभरणे अयं कविः भट्टदामोदरगुप्त इति व्यवहृतः । अन्येषु कवीन्द्रवचनसमुच्चयादिषु सुभाषितसंग्रहेषु कथितनामो दामोदर देवः कपिलदामोदरो वा, कस्यचित् यमककाव्यस्य. कर्ता दामोदर भट्ट, कुट्टनीमत कर्तुः भिन्नौ ॥ वल्लभदेवकृत सुभाषितावलौ सज्जनवर्णनपद्धतौ आरोग्यं, विद्वत्ता, सज्जनमैत्री, महाकुले जन्म | स्वाधीनता च पुंसां, महदैश्वर्यं विनाऽप्यथैः ॥ ( २३४ ) ( शा.प. ३१७ ), तथा हास्यपद्धतौ यद्धीमताऽतिवेगेन व्यासेन सहसा बहु । भाषितं शतशस्तेन तत्रैव च रुचिं कुरु ॥ ( २३३० ) ( तत्रैव चकारे इत्यर्थः । रुचि कुरु - इत्यत्र संनिकर्षरूप संध्युपस्थापितस्य चिंकुशब्दस्य काश्मीरदेशे योनिमणि ( योन्यंतर्गतांकुर ) वाचकत्वात् व्रीडाव्यंजकत्वेन अधिकचकारप्रयोगरुचेः उपहास्यत्वं व्यंग्यम् । ) चक्रिता ( का ? ) च मृताचार्य चेलं चर्चा चलीनता । चकारचता चेति सप्त जीवनहेतवः ॥ ( २३३१ ) उपयु (भु?)क्तखदिरबीटकजनिताधररागभंग भयात् । कुलटा वाटक निकटे तृष्यन्त्यपि वारि नो पित्रति ॥ ( २३३६ ) इति दामोदरगुप्तकृतित्वेन समुद्धृताः श्लोकाः । एतेषु चरमः श्लोकः क्षेमेन्द्रस्येति शार्ङ्गधरपद्धतौ, उत्तरार्धपाठश्च तत्र " पितरि मृतेऽपि हि वेश्या रोदिति हा तात तातेति ॥” इति (४०५१) । एतस्मादनुमीयते यत् दामोदरगुप्तेन अपरः कोऽपि ग्रन्थो विरचित इति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy