SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । सकृदपि यैरनुभूतस्तत्तनुपरिरम्भमुखरसास्वादः । विद्धि नराधिप तेषां दूरीभूतं प्रजाकार्यम् ।। १०३९ ॥ आस्था का खलु तस्या विषयग्रहदुर्बलेषु पुरुषेषु । यस्या विलासजाळकपतितः शकुनायते कपिलः ।। १०४० ॥ ४३३ स्थां आह तिष्ठत्विति । तस्या: अंगस्पर्शस्य वार्ता दूरे, यत:, येन पुरुषेण, सावरगात्री दराणि श्रेष्ठानि प्रशस्तानि गात्राणि शरीरावयवाः यस्याः सा, झटिति शीघ्रं प्रत्यंगावलोकनपर्याप्तकालाभावेन आपाततः इत्यर्थः, विलोकिता दृष्टा, तस्य, अन्यः तां विहाय शेष: सर्वोऽपि इति भावः, युवतिजनः ' जनशब्देन जातिमात्रग्रहणं ' तेन रमणीमात्रं इति अर्थ:, मनुष्यरूपेण पुरुषाकारेण, प्रतिभाति भासते; रूपतुलनायां अन्यासु तत्तुल्यरमणीरूपदर्शनाभावात् तत्र पुरुषबुद्धिः जायते इति भावः । अनया दर्शनं वर्णितं, यथोक्तं–“ अनिमेषलसद्दृष्ट्या दर्शनं दर्शनं स्मृतम् ॥” ( २/३३ ) इति शृंगारदीपिकायाम् । संबन्धातिशयोक्त्यनुप्राणितः काव्यार्थापत्तिरलंकारः ॥ १०३८ ॥ आक्षिप्तं अंगसंगं तत्फलकथनद्वारा वर्णयति सकृदति । सकृत् एकवारं, अपि, यैः, तस्याः तनोः शरीरस्य परिरंभेण आलिंगनेन भुजबंधनपीडनेन यत् सुखं परमा निर्वृति: तदेव रसः द्रवद्रव्यं तस्य आस्वाद: रसग्रहणं, यैः पुरुषः, अनुभूतः अपरोक्षानुभूतिगोचरतां नीतः, तेषां, प्रजाकार्य प्रजया लोकेन कार्य प्रयोजनं, " प्रजा संतानलोकयोः । " इति विश्वलोचनः, दूरीभूतं विप्रकृष्टं, लोकव्यवहारः तैः त्यक्तः इति भाव:, विद्धि जानीहि । तदा श्लेषसुखहृतचित्ताः उन्मत्ता इव लोकव्यवहारं त्यजति इति भाव: । तथा चोक्तं वराहमिहिरेण- " कामिनीं प्रथमयौवनान्वितां मंदवल्गुमृदुपीडितस्वनाम् । उत्स्तनीं समवलंब्य या रतिः सा न धातृभवनेऽस्ति मे मतिः || ” ( बृहत्संहितायां १३ । १८ ) इति । ( उत्स्तनीं उद्भिद्यमानकुचां समवलंब्य आलिंग्य, रतिः सुखं, प्रजापतिगृहे ब्रह्मलोके । ) नराधिप इति संबोधनं समरभटस्य युवराजत्वात् उप. चारेण ॥ अनया स्पर्शनं वर्णितं, तदुक्तं शृंगारदीपिकायां - “ आलिंगनादिसंस्कारैः स्पर्शनं परिकीर्तितम् ।” ( २१३४ ) इति । आर्याद्वये प्रसिद्धिर्नाम नाट्यालंकारः, तदुक्तं - " - " प्रसिद्धिर्लोकविख्यातैर्वाक्यैरर्थप्रसाधनम् ।” इति रसार्णवसुधाकरे ॥ १०३९॥ यस्या इति । यस्याः विलासः " यानस्थानासनादीनां नेत्रपक्ष्मादिकर्मणाम् । उपयात १०३९ [ अत्र प. पुस्तके अनर्थदः पंक्तीनां व्यत्ययः त्रुटिश्च । १०३९-१०४० लोकयोः ः व्यत्ययः स्तं. पुस्तके । ] १०४० आस्तां कार्यविचारो विषयप्रहदुर्बळेषु पुरुषेषु ( स्तं ) । पतगायते कपिल : (स्तं ) ૨૦ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy