SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । श्रुतिकुवलयमीक्षणतां कुवलयतां वा विलोचनं यायात् । हरिणदृशो याद न स्यात् कनकोज्ज्वलकेसरं मध्ये ।। ९८१ ।। ३९९ उत्पूर्वकस्य ई गतौ इ गतौ इत्यस्य वा अंतर्भावितण्यर्थस्य रूपम् । कथमेवमित्याह यदिति । यत् यतः, नववयसां आद्यतारुण्यावतारभूमीनां प्रथमतारुण्यं च वर्णितं ( ६.७५ आ. टी. ), पुंसां पुरुषाणां, एतद्विषये क्रियायोगं विना, उपसर्गाः दृश्यंते; तथाहि - उपसर्गा: निपातवत् अंतरंगाणि विशेषणानि, क्रियाविशेषार्थाभिव्यक्तिकारिणः कर्मप्रवचनीयेभ्यः भिन्नाः, स्वभेदेन क्रियायाः अर्थभेदजनका:, तेषां धातोः पूर्व प्रयोगः, ते च अव्यवहिताः सन्तः अर्थकारिणः, तथा च व्यक्तिविवेके - " विशेषणं हि द्विविधमान्तरं बाह्यमेव च । तत्राव्यवहितं सद्यदर्थकारि तदान्तरम् ॥ विशेष्योSपि द्विधा ज्ञेयो धातुनामार्थभेदतः । ... तत्रोपसर्गाणां प्रायो (प्रायस्तत्रोप ० ?) धात्वर्थो विषयो मतः । " इति । प्रादयः द्वाविंशतिः उपसर्गाः, क्रियायोगवंत एव द्योतकाः, तच्छून्यास्तु न द्योतकाः इति सिद्धान्तः, तद्वैपरीत्यमत्र क्रियायोगं विना उपसर्गास्तित्वरूपं दृश्यते इति सिद्धान्तविरोधेन पंडितानां विस्मय: । विरोधपरिहारस्तु क्रियायोगं क्रिया संयोगरूपा तया योगं संबंधं विना, उपसर्गाः उपद्रवाः उपप्लवाः पीडाः विरहजन्या इति भावः, तरुणानां भवति इति । ] ' क्रिया समागमरूपो व्यापारः इत्यर्थः, भ्वादिक्रियाशब्दाश्च । उपसर्ग: पीडा प्रादिशब्दाश्च । प्रादीनां उपसर्गत्वं क्रियायोग एव शब्दशास्त्रे भवति, अत्र [ युवविषये ] तु तां विना तत्प्राप्त्या कौतुकजनकत्वं युक्तमेव । ' [ इति टिप्पणी । अत्र श्लेोत्थापितः विभावनालंकारः, विरोधश्च व्यंग्यः । एतच्छायया कस्यापि राज्ञ: चाटु: - " " उपसर्गाः क्रियायोगे ' ( पा. १/४/५ ९ ) पाणिनेरिति संगतम् । निष्क्रियोऽपि तवारातिः सोपसर्गः सदा कथम् ॥ " इति ॥ ९८० ॥ नेत्रसौन्दर्य वर्णयति श्रुतीति । हरिणदृशः मृगाक्ष्याः तस्याः श्रुतिकुवलयं श्रुतौ कर्णे अलंकारत्वेन धृतं कुवलयं नीलोत्पलं, ईक्षणतां यायात् नेत्रत्वेन गृहीतं भवेत्, वा इति विकल्पे, विलोचनं नेत्रं वा नीलोत्पलत्वेन गृहीतं भवेत्, उभयोरभेदादिति भावः, यदि मध्ये नीलोत्पलस्य इति भावः, कनकवत् हेमवत् उज्ज्वलं दीप्तं केसरं किंजल्कं पुष्पमध्यवर्तितन्तुमंडलं प्रायः पीतवर्ण, जातावेकवचनं, न स्यात्, कमले पीतवर्णकिञ्जल्कसद्भावेन नीलोत्पलनेत्रयोः अन्योन्याध्यासः न उद्भवति इति भाव: । कमले सराभावे सति जनैर्भ्रान्त्या तस्या नेत्रं कमलत्वेन, कमलं वा नेत्रत्वेन गृहीतं स्यादित्याशयः । अनेन तस्याः नेत्रयोः आकर्णान्तगामित्वरूपदैर्घ्यं नीलत्वं च व्यञ्जितम् । ९८१ कुवलयितां वा ( प ) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy