SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ३७२ दामोदरगुप्तविरचितं यूयं कुटुम्बमध्ये, क गम्यते, गोत्रपुत्रसामान्यम् । आदाय संविभागं खगृह इव स्थीयतां यथासौख्यम् ।। ९३५॥ अभ्यन्तरव्ययार्थं न विलब्धो यो मया महोद्रङ्गः। तत्रापि तेऽनुबन्धो नो जाने किं करोमीति ॥९३६ ॥ प्रथमतरमेव कल्पितमनल्पफलजीवनं प्रदेशस्थम् । अद्यापि ते न जातं, नियोगिनां पश्य मन्थरताम् ॥ ९३७ ॥ वेतनादिसंबद्धः विचारः अग्रे भविष्यति इति भावः ॥ ९३४ ॥ अन्य: अपरं वात्सल्यप्रदर्शनेन सान्त्वयति यूयमिति । यूयमिति आदरार्थे बहुवचनं, कुटुंबमध्ये भ्रातृपुत्रादिवर्ग: कुटुंबः तस्य मध्ये, अर्थात् कुटुंबिवत् गण्यध्वे । अतः क गम्यते मत्सेवां परित्यज्य अन्यत्र क सेवार्थ युष्माभिः गम्यते, कुटुंबिजनवत् अत्रैव स्थातुं योग्यमिति भाव: । गोत्रं कुलं वंश: पौत्रप्रभृति अपत्यं, पुत्राश्च तैः सामान्यं साधारणं, संविभाग द्रव्यांश, आदाय ग्रहीत्वा, अत्रैव स्वगृहे इव इदं स्वीयं गृहमेव इति गणयित्वा, यथासौ. ख्यं सुखस्य भावः सौख्यं तदनतिक्रम्य यथासौख्यं सुखेन इत्यर्थः, युष्माभिः स्थीयतां नैव गम्यताम् ।] 'गोत्रपुत्रसामान्याः [इति पाठे] गृहस्थाः [इति टिप्पणी, यया सगोत्रा: पुत्राश्व एकस्मिन् एव गृहे वर्तते तद्वत् इत्यर्थः। एवं स्वामी सान्त्वयति न तु किंचित् ददातीति भावः ॥९३५॥ अन्य: अन्यं अनुचितलोभव्याजेन उपालभते अभ्यन्तरेति । अभ्यंतरव्ययार्थ गृहव्ययार्थ ( अभ्यंतरव्यय: 'खानगी खरच' इति माषायां व्यवहृतः,) अपि, यः महोद्रंगः महान् चासौ उद्गश्च, उद्रगस्तु नगरीविशेष:, " कर्वटादधमो द्रंग: पत्तनादुत्तमश्च सः । उद्गश्च निवेशश्च स एव द्रंग इत्यपि ॥ " इति वाचस्पतिकोशात् उद्धरणं अभिधानचिंतामणिटीकायाम् । पत्तनं पंचाशगामात्मकं, कटं च चतुःशतग्रामपरिमितम् । लक्षणया तस्मात् आयः, न मया विलब्ध: न मया उपयुज्यते अपितु आपत्तिसंग्रहरूपेण संरक्ष्यते, तादृशे द्रव्येऽपि ते अनुबंधः यदि अन्यस्मात् उत्पन्नात् दातुं न शक्यते तदा तस्मात् अपि अपवादतया दीयतां इति वारंवारं याचनम् । एवं स्थिते, किं करोमि कथं कस्मात् तुम्यं दातव्यं, इतिशब्दः प्रकारे, नो जाने निर्णेतुं न पारयामि । अत: न किंचिदपि अधिकं दास्ये इति भावः ॥ ९३६ ॥ अपर: अकृतकिंचन: मिथ्यावचन: सेवकस्य फलालाभे राज्याधिकारिषु ९३५ सामान्याः (गो. का) भागं गृह एव (गो. का) ९३६ [इतः ९५० अंकश्लोकपर्यन्तं का. मूलपुस्तकयोः अशुद्धिबहुलत्वात् का. पाठोऽपि तादृश एव]. न लब्धो""महादंगः (स्तं) ९३७ वियोगिनां (गो. का)। मत्सरिताम् (स्तं) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy