SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । ३०९ शुष्यति साऽलभमाना भवत्कृते वेश्मनिर्गमावसरम् । इति चतुर शठस्त्रीभिर्विलुप्यते त्वदपदेशेन ॥ ८३१॥ (अन्तयुगलकम् ) किं वा कथितैरधिकैरस्थानाविष्टचेतसस्तस्याः। अनुतिष्ठ यथायुक्तं त्वत्तो नाशश्च जीवरक्षा च ॥' ८३२ ॥ (दूतीवचनं महाकुलकम् ) कुलपतनं जनगहीं नरकगतिं माणितव्यसन्देहम् । अङ्गीकरोति तत्क्षणमबला परपुरुषमभियान्ती ॥ ८३३ ॥ द्घाटको लेखः, दत्तः प्रहितः । एतत् ] प्राभृतं उपायनं [तांबूलकुसुममालादिरूपं स्वप्रणयप्रकाशकं, च दत्तं, येन तस्याः प्रेम निःसंदिग्धं ज्ञास्यसि इति भावः । अनया मन:संगः उक्तः ॥८३०॥ तस्याः सप्रतिबन्धां तत्प्रेमातिशयजामवस्थामाह शुष्यतीति । सा त्वद्धयानपरा, भवत्कृते भवदर्थ भवता सह मेलनार्थ सगमार्थ इत्यर्थः, गृहकार्यव्याप्तत्वात् ननान्द्राद्यवेक्षणात् वा स्वगृहात् बहिर्गमनाय अल्पकालं अपि प्राप्तुं अशक्नुवाना, यौवनोष्मणा संतप्ता, शुष्यति संतापेन कृशा भवति । अनेन तस्याः अतिवैक्लव्यं ध्वन्यते, संकल्पावस्था च सूचिता ॥ इति इति उक्तप्रकारोपसंहारे, भोः चतुर रतितंत्ररहस्यविज्ञ रक्तानुरागेङ्गितज्ञ, त्वदपदेशेन त्वन्निमित्तं, "अपदेश: स्मतो लक्ष्ये निमित्तव्याजयोरपि।" इति विश्वलोचनः, शठम्रीभिः पत्यादिवञ्चकत्वात् धूर्ताभिः स्त्रीभिः परदाराभिः, विलुप्यते परपुरुषसमागमेच्छया चारित्रनाशात् स्वनाशः क्रियते परशिवत्वमपि विलुप्यते विनाश्यते ॥ ८३१ ॥ सप्रार्थनमुपसंहरति किमिति । कथितैः, कथनैः, अधिकैः बहुभिः किं, इति आक्षेपगर्भो निषेधः । अस्थाने कठिनहृदयत्वात् अपात्रे त्वादृशे, कारुण्योत्तेजनाय अयं उपालंभः,1'आविष्टः अनुरंजित:: [इति टिप्पणी, आविष्टं दृढं गतं चेतः चित्तं यस्याः तस्याः, संबंधसामान्ये षष्ठी, यथायुक्तं यथोचितं, अनुतिष्ठ कुरु, अपि च तामनुसर इति शब्दशक्त्या प्रतीयते । वत्र हेतुमाह त्वत्त इति । तस्याः नाश: देहवियोगः, जीवस्य रक्षा जीवनं इत्यर्थः, चः वार्थकः, "चः पादपूरणे पक्षान्तरे चापि समुच्चये।" इति विश्वलोचनः, त्वत्तः त्वत्सकाशात् , तस्याः जीवनं मरणं वा त्वदधीनं इति भावः । अनेन अनुनयवचनेन समागमेन तस्याः जीवरक्षणस्य अवश्यकर्तव्यता सूच्यते ॥८३२॥ इतः एका ८३१ रस्थाननिविष्ट० (प. स्तं) ८३२ युक्तं शोभा शठ जीव (गो. का) ८३३ कुलमलिनं (प. स्तं)।गहों बन्धनमपि जीवितव्य० करोति कुलटा सततं परपुरुषसं. सक्ता । ( इति पंचतंत्रे १११३५) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy