SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ दामोदरगुप्तविरचितं अग्रोपविष्टनर्तकवांशिकगातृप्रकाशयुवतिगणः । श्रेष्ठिप्रमुखवणिग्जनढौकितताम्बूलकुसुमपटवासः ॥ ७५७ ।। विविधविलेपनखरटितचक्रकधरखड्गधारिणाशून्यः । पृष्ठत आत्तकृपाणैः शरीररक्षश्च विश्वस्तैः ॥ ७५८ ।। ताम्बूलकरङ्कभृता सन्दंशगृहीतवीटिकाग्रहणे । ईषत्स्पृष्टं कुर्वन् मन्दं खटकामुखेन वामेन ॥ ७५९ ॥ दितेति । संपादिता निर्वर्तिता, हरस्य पापं भवभयं प्रलये कृत्स्नं वा हरति इति हरः तस्य, पूजा चंदनबिल्वपत्रमंत्रोच्चारादिभिः उपचार:, येन सः; निष्ठुरा: क्रूराः दर्शनार्थ समागतानां लोकानां उत्सारणे तत्प्रहारप्रवणत्वात् , ये याष्टीकाः यष्टिः प्रहरणं येषां ते, प्रहरणमित्यर्थे “ शक्तियष्टयोरीकक् " (पा. ४।४।५९) इति ईकक्प्रत्यय: , तैः, लोके सामाजिकसमूहे नियमिते नियंत्रिते सति, समरभट: वर्णित: सिंहभटपुत्रः राजसुतः; त्वरितः सत्वरः,] नियोगी कर्मकरः सेवकः [ नियुक्तः, तेन स्थापितं आनीय भूमो निहितं आसनं उपवेशनपीठं, अध्यास्त ॥ ७५६ ॥ चतुर्भि: कलापकेन तं वर्णयन् तस्य व्यापारमाह अग्रेत्यादिभिः । अग्रे संमुखे, उपविष्टः आसीनः, नर्तकाः नृत्ये कुशलाः 'कथक' इति भाषायां, चारणाः वा, "नर्तक: पोटगलके चारणे केलके नटे ।" इति विश्वलोचनः, (पोटगलक: नडतृणभेद:, केलक: कदलीवृक्षः।) तेषां, तथा वांशिका वेणुवाद्यवादका: तेषां, गातृणां, तथा ] प्रकाशयुवतयः वेश्याः, [ तासां गणः समूहः यस्य तादृशः । तथा श्रेष्ठिन: महाजना: 'शेठीया' इति भाषायां, प्रमुखाः आदयः येषां, तादृशैः वणिग्जनः बहुक्रयविक्रयकारिभिः व्यावहारिकैः; बहर्थवाची जनशब्दः, ] ढौकिताः उपायनीकृताः [ताम्बूलानि बीटिकाः, कुसुमानि पुष्पाणि, पटवासाः सुगंधीनि हरिद्रातंडुलादिचूर्णानि, च, यस्मै तथाविधः -७५७॥ ] खरटितं चित्रितम् , [ इति टिप्पणी । विविधरंजकद्रव्यैः खरटितः अनियमेन चित्रितमुखाद्यंग: चासो, चक्रकं चक्राकार: तर्जन्या भ्रामयित्वा निक्षेप्य: अनविशेषः, तं धरतीति चक्रकधरः, स चासौ खड्गधारी च तेन, तथा गृहीततरवारिभिः विश्वासपात्र: अंगरक्षकैः च, पृष्ठत: स्वपृष्ठभागे, अशून्यः अरिक्तः ॥ ७५८ ॥ तांबूलभक्षण ७५७ नर्तकवंशिप्राहिप (गो)। कुमुदपटवासः (गो.का) ७५८ वरखड्ग (गो)। शिरो. भिरक्ष (प.स्तं.का) ७५९ वीटिकाग्रेण (प.स्तं.)। ईषत्स स्ट? )टः (प. स्तं.) सत्पृष्ठं (का)। कुर्वन्मदं विटंकां मुखेन वांसेन (कुर्वन्मन्दं बिटिकां मुखे नतांसेन ?) (प.स्तं) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy