________________
कुट्टनीमतम् ।
,
"
दर्शयति दिशः फलिता अमृतगभस्ति करेऽवतारयति । सुरदेवि चन्द्रवर्मा निर्वस्तुकवाक्प्रपञ्चेन ॥ ७४४ ॥ त्वामनुयान्तं सम्प्रति पश्यामि कुरङ्गि वसुषेणम् । सुनिरूपिता भविष्यति विषमा गुडजिह्निका तस्य ।। ७४५ ।। वञ्चयति जनं योऽसौ हरिणि हरो धूर्तताभिमानेन । लिखति शतं दशवृद्ध्या स निमग्नस्तरलिकावर्ते ॥ ७४६ ॥ अपना मद्वत् इति सूच्यते, दुराशा दुष्टा मर्यादातिक्रमात् आशा इष्टवस्तुविषयिणी इच्छा यस्याः सा, वर्षत्रितयेन वर्षत्रयसंबंधेन तदन्ते इत्यर्थः, तत् प्राप्स्यति, यत् मया प्राप्तं वर्षत्रितयेऽपि तदिष्टानि न दास्यत्ययं यथा तत्संबन्धेन वर्षत्रये गतेऽपि मया किंचिदपि न प्राप्तं, अर्थात् मद्वत् अग्राहितार्थैव संभुक्तसंत्यक्ता भविष्यति, इति स्वानुभवमूलकं अनुमानम् । वञ्चकः कृपणश्च सः इति इदानीं सा अर्थलुब्धा न जानाति इति भावः ॥ ७४३ || काचित् सखीबोधाय स्वदुःखज्ञापनाय वा कस्यचित् विटस्य वावदूकतां वदति दर्शयतीति । भोः सुरदेवि, चंद्रवर्मा तन्नामा विट:, वर्मान्तनाम्ना सः क्षत्रियः इति सूचितं भवति, निर्वस्तुकः वस्तुशून्यः निःसारः यः वाक्प्रपंच: वाग्विस्तारः तेन, दिश: काष्ठाः, फलिताः फलवत्यः, दर्शयति; अमृतगभस्ति अमृतवत् सुखदा: गभस्तयः किरणा: यस्य तं चन्द्रं, करे अवतारयति हस्तस्थितमिव दर्शयति । करेण वारयति ' इति पाठे करेण हस्तेन, वारयति आच्छादयति । दर्शयतीत्यादिपूर्वार्धे लोकोक्तिद्वयं, बहु वदति न च किंचिदपि ददाति इति भावः ॥ ७४४ ॥ काचित् स्वसखीं तत्कामुकस्य शाठ्यं स्वानुभूतं निवेदयति त्वामिति । अनुयान्तं प्रीतिप्रकाशनाय त्वां सर्वदा अनुसरन्तं वसुषेणं अहं पश्यामि । अत: अल्पेनैव कालेन तस्य विषमा विसंवादिनी मिथ्येति यावत्, गुडजिह्निका गुडः इक्षुरसघन: इव जिह्वा अस्यां भाषायां भाषणे अस्य अस्तीति, मत्वर्थे “अतइनिठनौ" (पा. ५/२/११५ ) इति ठक्प्रत्ययः, " ठस्येकः " ( पा. ७/३/५० ) इति ठस्येकादेशः, मधुरभाषित्वं इत्यर्थः, सुनिरूपिता भविष्यति त्वयाऽपि ज्ञाता भविष्यति, यथा मया पूर्वं तत्परिचयेन ज्ञाता ॥ ७४५ ॥
काचित् कस्यचित्
२६९
७४४ करेण वारयति (गो. प. का) । सुरतकृति चंद्रवर्मा (का) । निर्वर्णकवा ० ( का ) ७४५ संप्रति यामि कुरंगाक्षि ( गो . का ) । वसुशेषम् ( का ) । भविष्यसि ( प. स्त ) । विषमं ( गो २ ) अनुरूपिका भविष्यसि विषमं ( का ) ७४६ चर्चयति जन
सुन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com