SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । हस्तद्वयान्तरागतमुपचारपरिव्ययेन संस्कृत्य । भुक्त्वा यावन्मांसं त्यक्ष्यसि चर्मास्थिशेषितं मास्यम् ॥ ७३५ ॥ शृणु सुश्रोणि यथाऽस्मिन् कमलेश्वरपादमूलमञ्जर्या । प्रवराचार्यदुहित्रा राजसुतश्चर्वितश्च मुक्तश्च ।। ७३६ ॥ स्मितादित्रयेण संबध्यते, तथा च वक्रस्मितं उपहासव्यञ्जकं स्मितं, वक्र: दृष्टिपात: कटाक्षः, वक्रा वाक् च वक्रोक्तिः, तान्येव बडिशं; तत् प्रक्षिप्य प्रयोज्य, जडं बुद्धिरहितं विवेकहीनं स्फुरणेन विवर्जितं, यथा बडिशलग्नो मीन: निश्चेष्टो भवति तथा वेश्यालग्न: कामुकोऽपि अन्यव्यापाररहितो जायते इति तात्पर्य, सुपरिपुष्टं पीनं कामुकपक्षे प्रभूतद्रव्यं, तादृशं आकृष्य स्वलनं कृत्वा, ॥ ७३४ ॥ हस्तद्वयान्तरागतं हस्तद्वयस्य अन्तरा मध्ये आगतं प्राप्तं, कामुकपक्षे हस्तद्वयस्य अन्तरे मध्यवर्तिभागे उरसि इति यावत्, आगतं स्नेहेन पतितं, यद्वा अशक्यमोक्षं गृहीतं, तादृशं मत्स्य कामुकं च,] उपचार: अनुकूलाचरणं स एव परिव्यय: संविधान, [वेसवार: 'मसाला' इति भाषायां, तेन संस्कृत्य तस्य संस्कार दत्त्वा तेन स्वादुतरं कृत्वा इत्यर्थः, तं यावन्मांसं यावत् मांसं स्यात् तावत् , भुक्त्वा संभुज्य, कामुकपक्षे यावत् द्रव्यलवः स्यात् तावत् भुक्त्वा, चर्मास्थिशेषितं अभक्ष्यभागशेष मत्स्य कामुकपक्षे च लोकोक्त्यनुसारेण निर्द्रव्यं इत्यर्थः, त्यक्ष्यसि || एकदेशविवर्तिरूपकं अलंकारः, अत्र वक्रस्मितादौ बडिशत्वाद्यारोपः शाब्दः, मत्स्यस्य च कामुकारोप: आर्थः इति ॥ मत्स्यरूपकमूल: प्रकारान्तरेण श्लोक: भर्तृहरे: शृंगारशतके (५२)-" विस्तारितं मकरकेतनधीवरेण स्त्रीसंज्ञितं बडिशमत्र भवाम्बुराशौ । येनाचिरात्तदधरामिषलोलमर्त्यमत्स्यान् विकृष्य विपचत्यनुरागवह्नौ ॥” इति || तथा च समयमातृकायां अपि-"प्राप्ते कान्ते कथमपि धनादानपात्रे च वित्ते, त्वं मे सर्व त्वमसि हृदयं जीवितं च त्वमेव । इत्युक्त्वा, तं क्षपितविभवं कञ्चकाभं भुजंगी त्यक्त्वा, गच्छेत्सधनमपरं, वैशिकोऽयं समासः ॥" (५।८९) इति ॥ ७३५ ॥ एवं महता प्रबन्धेन विशीर्णप्रतिसंधानं, चूषिताम्रफलन्यायेन तत्क्षेपणं च उपदिश्य, दृष्टान्तविशेषेण उपदेशदाया॑य मंजर्याख्यानं आप्रबन्धान्तं मालती श्रावयितुं विकराला उपक्रमते शुण्वित्यादिना । शृणु इतः परं आकर्णय, सुश्रोणि शोभना श्रोणिः श्रोणी वा कटिभाग: नाभ्यधोग: उदरजघननितंबात्मकः मध्यभाग: यस्याः सा सुश्रोणिः तत्संबुद्धी, सावधानं आश्रोतुं संबोधनम् । यथा येन प्रकारेण, अस्मिन् वाराणसीनगरे, ७३५° मुफ्वारय येन सत्कृत्य (का)। त्यक्ष्यति ( का ) ७३६ कलशेश्वर (प)। श्ववितश्च (प)। इदानी मजर्याख्यानमाह (प) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy