SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ दामोदरगुप्तविरचितं व्यपगतकोषे रागिणि याति लयं पानमात्रलाभहता । क्षुद्रा मधुकरिकाऽब्जे न तु गणिका चिन्तितस्वार्था ।। ६५५ ॥ यासां कार्यापेक्षा सकटाक्षनिरीक्षणेऽपि वेश्यानाम् । दर्शनमात्रक्षुभितैर्वश्श्यन्ते ताः कथं पुरुषैः ॥ ६५६ ॥ इति ॥ ६५४ ॥ तद्विपर्ययेण गणिकायाः विपदस्पर्शनरूपं चातुर्यमाह व्यपगतेति । क्षुद्रा तुच्छा बुद्धिहीना इति यावत्, मधुकरिका मधुमक्षिका, पानमात्रलाभहृता कमलमधुनः पानं एव लाभः, तेन हृता तदाशया आकृष्टा, अब्जे कमले, कीदृशे, व्यपगतकोषे व्यपगतः दूरीभूतः कोषः कुड्मलं लक्षणया तद्भावः यस्य तस्मिन् विकसिते इत्यर्थः, रागिणि रक्तादिः रागो वर्णः यस्य तस्मिन्, लयं याति मधुपानासक्ता मधुकरी सायं कमलनिमीलनेन तत्रैव बंदी भवति, यथोक्तं तंत्राख्यायिके-"हुताशज्वालाभे स्थितवति वावस्तशिखरे, पिपासुः किंजल्कं प्रविशति सरोज मधुकरः । तदन्तः संरोधं गणयति न संध्यासमयजं, जनोऽर्थी नापायं विमृशति फलैकान्ततृषितः ।।" (१।११०) इति । तु व्यावर्तने, परंतु इत्यर्थः, तत्तुल्याऽपि गणिका, चिंतितस्वार्था स्वप्रयोजनसाधनकव्यापृतचित्ता सती; लयं तदेकनिमनत्वं विनाशं वा, न व्रजति, अपि तु स्वार्थ परं साधयति । गणिकाऽपि मधुकरीवत् स्वोचितस्य धनरूपमकरंदस्य यत् पानं लक्षणया ग्रहणं तदेव लाभः तेन हृता, कुत्र, रागिणि अनुरागवति कामुके, तस्मिन् व्यपगतकोषे नष्टधनसंग्रहे, लयं निरोधं आसक्तिं वा न याति, रिक्तीभूतं तं यथाकालं परित्यजति । " कोषोऽत्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः।" इति अमरः, "रागोऽनुरागमात्सर्यक्लेशादौ लोहितादिषु । गान्धारादौ नृपे नागे," "क्षुद्रा वेश्यानटीव्यंगासरघाबृहतीष्वपि ।" इति च विश्वलोचनः ॥ अत्र 'क्षुद्रा मधुकरिका' 'क्षुद्रा गणिका' इत्यत्र शब्दयोः एकार्थताभासेन पुनरुक्तवदाभास: शब्दालंकारः, व्यपगतेत्यादिश्लेषानुप्राणितः क्षुद्रेति चिंतितस्वार्थेति च उक्तहेतुः व्यतिरेकालंकारश्च । न च अत्र सश्लेषव्यतिरेकालंकारः इति व्यपदेशः, व्यपगतकोशेत्यादिसाधारणविशेषणानां श्लिष्टत्वेऽपि भेदकविशेषणानां अश्लिष्टत्वात् ॥ ६५५ ॥ तासां अपरं चातुर्य अप्रतार्यत्वरूपं आह यासामिति । यासां वेश्यानां, कटाक्षः कटौ अतिशयितौ अक्षिणी यत्र सः, यद्वा कटं गण्डं अक्षति व्याप्नोति इति कटाक्षः, कटाक्षेण सहितं निरीक्षणं सकटाक्षनिरीक्षणं अपांगावलोकनं तस्मिन् , अपि: समुच्चये अन्यव्यापाराणां, कार्यापेक्षा प्रयोजनालोचनं, "कार्य हेतौ प्रयोजने" इति विश्वलोचनः, ता:, दर्शनमात्रक्षुभितः वेश्यानां ३५५ लाभकृते (गो. का)। चिन्तितस्वार्थे (गो. का)। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy