________________
१९८
दामोदरगुप्तविरचितं
वर्णनं आभासरूपं, अनौचित्यप्रवर्तित्वात् ॥ बहुनिरतस्य दक्षिणनायकस्यापि अनु. रागस्य न आभासत्वं, तस्य अनेकासु वृत्तिमात्रेण साधारण्यात्, न रागेण; नायकरागस्य एकस्यामेव प्रौढत्वात्, अन्यत्र मध्यमत्वात् मन्दत्वात् वा; यथा सूचितं शंगार. रहस्यविदा कालिदासेन विक्रमोर्वशीये-" राजा-उर्वशीगतमनसोऽपि मम देव्यां स एव बहुमान: । " ( २ अं.) इति, तत्रैव अन्यत्र च-" चित्रलेखा-अयि मुग्धे, अन्यसंक्रान्तप्रेमाणो नागरा भार्यायामधिकं दक्षिणा भवंति ।" ( ३ अं.) इति ( दक्षिणाः चतुराः ।) । रसतरंगिणीकारस्तु इदं प्रकारान्तरेण समाहितवान् “ यस्य व्यवस्थिता बढ्यो नायिका भवंति न तत्र रसाभासः, तथा सति कृष्णस्य सकलनायकोत्तमस्य बहुकामिनीविषयाया रतेराभासत्वापत्तेः । तस्मादव्यवस्थितबहुकामिनीकवैशिकनायकपरमेतत् । अत एव वैशिकानां वेश्यानां च रसाभासः इति प्राची. नमतम् ।" इति ॥ प्रत्यक्षदोषवतः धृष्टस्य, बहुनायिकानिबद्धभावस्य गूढविप्रियकृतः शठस्य च रागाभावात् रसाभासत्वं प्रकटमेव ॥ म्लेच्छहालिकादिजडपात्ररागे तिर्यगादिरागे च तेषां शंगारस्य कामविकारशान्तिप्रयोजकबुद्धित्वात् केचन आभासत्वं पश्यति तचिन्त्यमेव । तथाहि माऽस्तु हालिकाद्येषु ग्राम्येषु कामकलाकौशलं, तथापि दृश्यते तत्र रति: तत्फलं च; माऽस्तु च तेषां विभावादिज्ञानं, वर्तते तथापि तत्र तेषां सद्भावः । एवं सचेतनेषु पशुपक्ष्यादिषु अपि मनुष्यवत् दृश्यते चिन्तादिभावः, विकारादिसत्त्वं च । अत एव सूक्ष्मदर्शिभिः कालिदासादिमहाकविभिः पश्वादिगतः शंगारो वर्णितः, यथा-" मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्त. मानः । शृंगेण च स्पर्शनिमीलिताक्षी मृगीमकण्डूयत कृष्णसारः ॥ " ( कुमारसंभवे ३।३६ ) इति, " कण्डूकुड्मलितेक्षणां सहचरी दंतस्य कोट्या लिखन् पर्यायव्यतिकीर्णकर्णपवनैराहादिभिर्वीजयन् । जग्धाधैर्नवसल्लकीकिसलयैरस्या: स्थिति कल्पयबन्यो वन्यमतंगज: परिचयप्रागल्भ्यमभ्यस्यति ॥ " (मालतीमाधवे ९।३२) इत्यादिभिः । अत एव निर्णीतं एकावल्यां-" विभावादिसंभवो हि रसं प्रति प्रयोजको, न विभावादिज्ञानं, ततश्च तिरश्चामप्यस्त्येव रसः । " (३) इति ॥ एवं मालतीमधुकरादीनां लतावृक्षादीनां अपि रत्यादिभाववर्णनानि कविकृतानि संगच्छंते, स्थाव. रेषु अपि वर्तमानायाः चिदानंदकलाया: प्राकृतदृष्टिभिः अनवगमे तन्निर्वर्तितभावादीनां स्फुटं अदृश्यत्वेऽपि, तद्तजीवभावादेः अपोहितुं अशक्यत्वात् , क्रान्तदर्शिभिः कविभिश्च तदर्शनात् । प्रकाशितं हि एतत्तत्त्वं आदिकविना महर्षिणा-" संनिकर्षाच सौहार्दै जायते स्थावरेष्विव ।" (रामायणे २।८।२८।) इत्युक्तवता । अत एव रसान्तरे कालिदासोऽपि-"नृत्यं मयूराः कुसुमानि वृक्षा दर्भानुपात्तान्विजहुर्हरिण्यः । Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com