SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । १८९ संपन्नवान्छितार्था बल्युपहारेण पूजयिष्यामि । सामग्रीविरहेण तु न वितीर्ण तत्र मे शङ्का ॥६१३॥ (विशेषकम् ) अस्मिन् व्यर्थीभूते रिक्तीकृतशून्यवेश्मनो दाहम् । उत्पाद्य मन्दगामिनि सर्वविनाशः प्रकाशमुन्नेयः ॥ ६१४ ॥ स्निग्धत्वमलं बुद्धा सहभोजनशयनवसनलिङ्गेन । एभिरुपायद्वारैः कान्तो रिक्तस्त्वया कार्यः ॥ ६१५ ॥ अनुग्रहेण ॥ ६१२ ॥ संपन्नेत्यादि सिद्धमनोरथा प्राप्तप्रियारोग्या इति भावः, बलि: पूजा, “ बलि: पुंस्यसुरान्तरे । बलिश्चामरदण्डेऽपि करे पूजोपहारयोः ॥ सैन्धवेऽपि बलिः ।" इति विश्वलोचनः; तद्रूपेण उपहारेण उआयनेन । सामग्रीविरहेण द्रव्याभावेन पूजोपकरणाभावः तेन औपहारिकाभावेन, न 1 वितीर्ण पूजितं, [ पूजा न कृता इत्यर्थः; तत्र तेन, मे शंका देवतायाः भयं किमपि पुनः अमंगलं भवेदित्येवंरूपा, " शंका त्रासे वितर्के च " इति विश्वलोचनः । अतः पूजननिर्वृत्त्यर्थ भूरि दातव्यं इति कूटेन सूचितम् ॥ ६१३ ॥ कामसूत्रे तत्रैव अर्थागमोपायप्रकरणे अपरं सूत्रं-" दाहात् कुड्यच्छेदात् प्रमादाद्भवने चार्थनाशः । ॥ तत्र दाहोपायं उपदिशति अस्मिन्निति । अस्मिन् पूर्वोक्ते प्रपञ्चप्रकारे, व्यर्थीभूते निष्फलतां गते, कामुकस्य कृते एव देवतापूजां निमित्तीकृत्य द्रव्यलाभस्य अभावे इत्यर्थः, आदौ गृहं द्रव्योपकरणादिभिः शून्यं रहितं कृत्वा, केनचित् रहस्यसचिवेन, तत्र दाहं ज्वलनं उत्पाद्य कारयित्वा, मन्दगामिनि हे गजराजवत् लीलागमनशीले, गृहदाहेन सर्वविनाश: अन्नवस्रधनगृहादिरूपस्य सर्वस्य निःशेषतया नाशः, प्रकाशं उन्नेय: लोकप्रसिद्धः कार्यः, येन परोक्षं अपरजनेभ्य: तत् श्रुत्वा सर्वनाशं सत्यं मत्वा अन्नादिवितरणं कुर्यात् इत्यभिप्रायः ॥ विषयभूतकामसूत्रस्थदाहांशो व्याख्यात: जयमंगलेन-"प्रमादादुत्थिते. ऽमौ च दग्धमिति नाशः प्रकाश्यः । न तु स्वयमादीप्य:, अनेकप्राण्युपघातदोषात् ।" इति; सूत्रान्तरव्याख्यायां च " दाहादिना नाशे प्रकाशितेऽवश्यं प्रयच्छति स्वकीयं च न मृगयते।" इति ॥ ६१४ ॥ ॥ अथ दीपितरागाङ्गै" रित्यार्यया (५१९) आरब्धं अर्थागमोपायोपदेशप्रकरणं उपसंहरति स्निग्धत्वमित्यादिना । कामुकस्य ] स्निग्धत्वं स्नेहं, [ स्नेहस्तु-" दर्शने स्पर्शने वाऽपि श्रवणे भाषणेऽपि वा । यत्र द्रव ६१३ वाञ्छिताऽहं (प)। हारेण तोषयिष्यामि (प) ६१४ शीर्णवेश्मनो (प)। विनाशप्रकाश उपनेयः (4) ६१५ लिंगेषु (प)। 'द्वारे तिविरक्तस्त्वया कार्यः (गो. का).. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy