________________
१६८
दामोदरगुप्तविरचितं देशान्तरादुपेता प्रसादमात्रेण वीक्षिता वनिता । तत्याज न पादयुगं समरे निहतस्य वामदेवस्य ॥५६४॥ भट्टकदम्बकतनये याते वसतिं परेतनाथस्य । चक्रे देहत्यागं रणदेवी वारयोषितां मुख्या ॥ ५६५ ॥ अस्यामेव नगर्या द्रविणमदात् कालसञ्चितमशेषम् । प्रेम्णाऽऽकृष्टा गणिका मिश्रात्मजनीलकण्ठाय ॥ ५६६ ॥ इयमपि मयि विहितास्था मातृवचाकलुषिता गता कापि । त्यक्त्वाऽऽभरणं सर्व प्रविजृम्भितमन्युसंवेगा ॥५६७ ॥ उस्मृष्टालङ्करणां परिशेषितमातृमुक्तपरिवाराम् ।
संतपयामि सम्मति सर्वस्वेनापि हरिणाक्षीम् ॥ ५६८ ॥ त्रिभागवत् ।" इति अमरव्याख्यासुधायां, ते त्रिदशाः सुराः, तेषां आलयः स्वर्गः, त्रिदशालयस्य जीविका इव जीविका जीवनसाधनं भोजनसुवस्त्रालंकारादिसमृद्धिः, उपमितसमास:, तां, क्रमोपगतां एकस्याः प्राप्ते: अनन्तरं द्वितीयस्याः प्राप्तिः इत्यादिपरिपाट्या संभृतां, यद्वा मातृवंशपरंपरागतां, मुक्त्वा त्यक्त्वा, भट्टविष्णुं नातिधनिनं कंचित् ब्राह्मणम् । 'भुक्त्वा जीर्णा खलु मिश्रपुत्रमा' इति पाठे] तारुण्यात् प्रभृति अङ्गीकृतवती, अधुना च जीर्णा वृद्धा समभूत् इत्यर्थः । ५६३ ॥[प्रसादमात्रेण तस्याः हीनपात्रत्वेऽपि केवलं दृष्टिपातरूपः अनुग्रहः कर्तव्यः इत्येव बुद्धया वीक्षिता दृष्टा, दृष्टिपातमात्रेण अनुगृहीता इत्यर्थः । वनिता अनुरक्ता स्त्री । ५६४ ॥ परेता: मृताः तेषां नाथः भर्ता परेतनाथः यमः । वसतिं सदनम् । वारयोषितां गणिकानां, मुख्या प्रधाना, वारमुख्या इति संशिता, " अथ सा जनैः । सत्कृता वारमुख्या स्यात् ।" इत्यमरः ॥५६५॥ अस्यामेव नगर्या वाराणस्याम् । द्रविणं धनं, अदात् दत्तवती इत्यर्थः ॥५६६॥ उदाहरणेभ्यः प्रस्तुतार्थ निगमयति इयमिति । इयं मालती । ] विहितास्था धृतादरबुद्धिः, [ यद्वा गृहीतमदालंबना, "आस्था त्वालम्बनापेक्षायनास्थानेषु दृश्यते ।" इति विश्वलोचनः । प्रस्तुतनायकपरित्यागनिर्बन्धात्मकानि मातुः वचनानि तैः ] कलुषिता प्राप्तचित्तोद्वेगा [ अप्रसन्ना । कापि अज्ञातस्थले । ] मन्युः क्रोधः । ५६७॥ [एवं स्थितौ स्वकर्तव्यं प्रति___५६४ दुपेते."विक्षिते ( गो. प)। वनिते (गो) विनते (प) । पादयुगं तत्यजतुर्नवामदेवस्य समिति निहतस्य (गो) पादयुगं त्यजति न वाम० (4) ५६६ भट्टात्मज (प. कापा)५६७ इयमपि विहितास्था मां मातृ पिता क गता (गो. का) नु गता (कापा)। परिवर्धितमन्यु (गो. का) ५६८ परिसेवितमातरं विपरिवाराम् (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com