________________
१२८
दामोदरगुप्तविरचितं
द्विविधा अपि अलङ्कारा: संगृहीताः, चित्तवृत्ते: वैशिष्टयादाह्रादकत्वाच्च तत्रापि अलंकारत्वं उपचर्यते । ते च भावाः चतुर्धा-" चित्तगात्रवाग्बुद्धयारम्भसम्भवाः।" तत्र भावादयः चित्तजा दश, लीलादयः गात्रजा दश, आलापादयः वागारम्भा द्वादश, रीत्यादयः बुद्ध्यारम्भाः त्रयः, इति मिलित्वा पञ्चत्रिंशत् रसार्णवसुधाकरे उपभेदैश्च अधिकसङ्ख्याकाः कथिताः । तत्र वाग्बुद्धयारम्भाणां अन्यत्र अन्तर्भावं मत्वा बहुभिः ते पृथक् न गणिताः, केवलं चित्तजापरनामकसत्त्वजाः गात्रजाश्च प्रत्येकं दश मिलित्वा विंशतिरेव नायिकालङ्काराः प्रायः स्वीकृताः । तत्रापि गात्रजेषु लक्षणादिभेदेन मद-तपन-मौग्ध्य-विक्षेप-कुतूहल-हसित-चकित-केलयः इति अष्टानां मध्ये अन्तर्भावादिना न्यूनाधिकस्वीकारेण गात्रजा लीलादयः परं अष्टादशसङ्ख्याका भवन्ति, संमिलिताः अष्टाविंशतिः ॥ तेषु आद्यौ भावहावौ उपलक्षणत्वेनादाय ते सर्वेऽपि भाषायां साधारणतया ' हावभाव ' इति व्यवह्रियन्ते; यद्वा हावः स्त्रीणां शृङ्गारचेष्टा, भावश्च आन्तरो धर्मविशेषः चेष्टाद्वारा आत्मसुखप्रकाशकः इति द्वयोर्मेलनेन 'हावभाव ' इति व्यवहारः ॥ एतेषामेव नायिकालंकाराणां अनुभाव इत्यपि संज्ञा, यतः आलम्बनोद्दीपनविभावै: उद्बुद्धं रत्यादिकं भाव बहिः प्रकटयन्तः अनुभावरूपव्यापारवन्तः ते सन्ति, नायिका अलंक्रियतेऽनेन इति तेषां नायिकालंकारत्वमपि ॥ भरतेन तु लीलादीनामेव हावसंज्ञा कृता, तत्र नारीणां शङ्गारचेष्टा हावः इत्यर्थः । केचित्त-स्त्रीणां सत्त्वजा अलंकारा विंशतिः; तत्र भावादयः त्रयः अंगजाः, शोभादयः सप्त अयत्नजाः, लीलादयो दश स्वाभाविकाः इति मन्यन्ते; नाट्यालंकाराश्च इत्यपि व्यवहरन्ति, तत्र भावादयो लीलादयश्च प्राप्तसंभोगे अप्राप्तसंभोगे च भवन्ति, शोभादयः प्राप्तसंभोगतायाभेव ॥ एषु भावादयः दश पुंसामपि भवन्ति, गात्रजभावेषु अपि केचन तेषां सोपाधिका भवन्ति; त्रीणां तु सर्व एव ते स्वभावजाः, तेषां च उद्दीपकान्वयव्यतिरेकाभ्यां आविर्भावतिरोभावाः, यद्वा, तेषां बाल्ये अनुद्भेदः, यौवने आविर्भावः, वार्धके तिरोभावः इति संक्षेपः ।। एतेषु मूले सत्त्वजानां उपलक्षणेन हाव: एक एव, लीलादय: गात्रजाश्च सर्व एव भावाः क्रमेण सम्बोधिता शेयाः ॥ एतादृशां नाममात्रग्रहणे काव्ये न कश्चित् चमत्कारः इति न, रामादिदेवनाम्नां जपे यथा नामार्थमहिम्ना तदीयतत्तत्कल्याणगुणानां स्मरणं, तथा एवंविधस्थलेऽपि तत्तन्नामव्यञ्जिततत्तत्पदार्थानां सर्वाङ्गीणतया प्रतीतौ तात्पर्यात् । अपरे अपि अत्र समाधाने द्वे आदी उक्ते ॥ मूले हावस्तु-"ग्रीवारेचकसंयुक्तो भ्रनेत्रादिविला(का)सकृत् । अल्पालाप: सशृङ्गारः स हाव इति कथ्यते ॥ इति लक्षितः । स च यथा-" अनिमिषदृशा सरस्यां पश्यन्ती चक्रवाकमिथुनानि । किञ्चिवुदञ्चत्पुलकैर्मु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com