SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । १२५ वटशाखा लम्बिभुजां श्वसितोष्णसमीरशुष्यदधरदलाम् । पर्यस्तां विभ्राणां तन्मार्गविलोकनानिमेषदृशम् ।। ४६८ ॥ लोलायमान वेणी तिर्यक्कृतकण्ठभूषणविशेषाम् । गलदश्रुवारिपूर्णां पतितां संशुष्कनिःसहाङ्गलताम् ॥ ४६९ ॥ रुन्धानामिव हृदयं स्फुटादितरकरेण कुचयुगाश्रयिणा | परिशेषितां विलासैरुत्सृष्टां जीवलोककर्तव्यैः ॥ ४७० ॥ अङ्गीकृतां विपच्या, वशीकृतां मर्मघट्टनैर्विषमैः । हारळतामपरिस्फुटमन्तः परिकृष्यमाणभारत्या || ४७१ ॥ 6 C अन्त:परिकृष्यमाणभारत्या मामेत्यादि - तिरोहितेत्यन्तं अपरिस्फुटं अभिदधतीं हारलतां प्राणा जहुः - इति कुलकान्वयः ॥ आस्स्व सुखं ' इति गमनकालीना आशीः । आस्स्व सुखं ' इत्यस्य स्थाने 'अस्निग्धं' इति पाठे रूक्षं कठोरम् । दयायुक्ता दयिता तारकादित्वात् इतच्, ततः 'अनुकम्पायां ठक्' (पा. ५ । ३ । ७६ ) इति दयितिका, अनुकंपिता अनुकंपाविषया दयिता इत्यर्थः । मन्दं शोकभारगुरुतया शनैः शनैः, विवर्तितग्रीवं यावच्छक्यदर्शनार्थ मुहुर्मुहुः विवर्तिता वलिता ग्रीवा कन्धरा यथा स्यात् तथा, एतेन वलिताख्या दृष्टिः सूचिता, तल्लक्षणं - “ वलितं तन्निवृत्तस्य भूयस्त्रयस्रा (प्रेयो) - वलोकनम् । ” इति । याति गमनं कुर्वति ॥ ४६७ || सार्धेन आर्याद्वयेन करुणाक्रान्तहारलतादृश्यं अक्षरैश्वित्रयति वटेति । अघरदलं ओष्ठपल्लवः । पर्यस्तां परिवृत्तां, तन्मार्गस्य तस्य गमनपदव्याः, विलोकने तृष्णादीर्घेण चक्षुषा दर्शने, अनिमेषदृशं मीलनोन्मीलनचेष्टारहितां निश्चलां दृष्टिं बिभ्राणाम् ; । ४६८ ॥ विगलितबन्धतया व्यालोलकेशपाशेन अव्यवस्थितकण्ठाभरणां, संशुष्केत्यादि - शुष्का अत एव स्वधारणे अशक्ता लता वल्ली तद्वत् भूमौ पतिता ॥ ४६९ ॥ स्फुटत् विदत् भिद्यमानं, यत् हृदयं तत्, अपरेण शाखानवलम्बिना करेण, रुन्धानां इव प्रतिबध्नन्तीं इव, शोकातिरेके हस्तस्य हस्तयोर्वा कुचयोरुपरि स्थापनं स्त्रीस्वभावः, तन्मूलेयं क्रियोत्प्रेक्षा; परिशेषितां त्यक्तां, “ प्रियसन्निधौ अने क्रियायां वचने च सातिशयं विशेषोत्पत्तिः विलासः " तै: विलासैः; जीवलोकः संसारः; ४७० अङ्गीकृतां अभ्युपगतां आक्रान्तां इति यावत्, विषमैः दारुणैः, ] मर्मघट्टनं मर्मस्थलपीडा [ तैः हृदयादिजीवस्थानप्रदेशकृन्तनैः, वशी ४६८° दधरमुख (१ ) ४६९ दोलाय० ( प ) । तिर्यग्गत ( प ) । पतितां - शुकभागनि: ( प. गो २. ) ४७० परिशोषितां ( गो . का ) ४७१ अंगीकृतां नियत्या ( १ ) । लतामपि रिक्तामन्तः ( मो २. का ) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy