________________
कुट्टनीमतम् ।
पातयसि कुवलयनिभे कौतुकमात्रेण लोचने यासु । ता अपि सत्यं सुन्दर हर्षोच्छलिता न मान्ति गात्रेषु ॥ १६९ ॥
(संदानितकम् )
३९
तनुरपि नाथप्रणयः प्रायो मुखरीकरोति लघुमनसः । स्वार्थनिवेशितचित्ता करोमि तेऽभ्यर्थनां तेन ॥ १७० ॥ तीव्रस्मरतारुण्याच्चापलतः कौतुकेन घृणया वा । मद्भाग्यसंपदा वा दूत्या वा कौशलात् स्वभावाद्वा ॥ १७१ ॥ योऽयं प्रेमलवांशः प्रदर्शितोऽस्मासु जीवनोपायः । बाधा नात्र विधेया गणिकाजनभावमन्यथा बुद्धा ।।
१७२ ।।
( युग्मम् )
येन स्नेहः क्रोधः शाठ्यं दाक्षिण्यमार्जवं व्रीडा । एतानि सन्ति तास्वपि जीवद्धर्मोपनीतानि ।। १७३ ॥
वंशद्वयम् । वरः सुन्दरः आरोहो नितम्ब : यस्याः सा वरारोहा । ] नरकवैरी [ नरको निरयः यद्वा तन्नामको दानवः, तस्य वैरी ] नारायणः ॥ १६८ ॥ पातयसि प्रक्षिपसि, कुवलयाभ्यां तुल्ये कुवलयनिभे, कौतुकमात्रेण केवलं कुतुकात्, न तु आसक्त्यादिना । उच्छलिताः परिपूर्णाः, गात्रेषु न मान्ति उल्लङ्घितमानमानसोल्लासहासा भवन्ति इत्यर्थः । [ संदानितकं–चतुर्भिः वृत्तै: एकान्वयसम्बन्धेन भवति, चतुःश्लोकसम्बद्धगुच्छकः, अस्यैव चक्कलकं इत्यपि संज्ञा कश्मीरेषु । ] ॥ १६९ ॥ [ प्रणयः प्रीति: । ] लघुमनसः [ लघु निःसारं मनः चेतः येषां ते, निकृष्टा इत्यर्थः, प्रस्तुते ] अनुकंपनीयाः याः । [ अभ्यर्थनां प्रार्थनाम् । ] ॥ १७० ॥ तीव्रः स्मरः कामो यस्मिन् तस्मात् तारुण्यात्, [ चापलत: चित्तचाञ्चल्येन, कौतुकेन कुतूहलात् ] घृणया निःसीमानुजिघृक्षया अनुकम्पया, [ भाग्यसंपदा पूर्वतनसुकृतसमृद्धया, दूत्या: पूर्व स्वप्रेषितायाः कौशलात् चातुर्यात्, स्वभावात् निसर्गत: । ] ॥ १७१ ॥ [ प्रेमलवांशः अल्पमात्रं प्रेम, स एक एव तस्या जीवनोपायः प्राणधारणसाधनम् । बाधा कदापि निषेधः । अत्र प्रेमविषये । भावं चित्ताभिप्रायम् । ] अन्यथा केवलस्वार्थप्रवणतादिरूपम् ॥ १७२॥ [ येन यतः, शाठ्यं धौर्त्य, दाक्षिण्यं परच्छन्दानुवर्तित्वं, आर्जवं सरलाशयत्वं । यथा गणिका
"
१६९ हर्षोल्लसिता ( गो. प. कापा ) १७० करोति (१) १७१ कौतुकेन प्रणयाद्वा । ( कापा ) १७२ जनवृत्तम ( गो २ ) जनहृदयम ( कापा )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com