SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् ७१ [३८] पुत्रवियोगे मरुदेवाया विलापः। भरते नृपतौ पुरःस्थिते, स्मृतपुत्रेश्वरतापरोन्नतिः । स्रवदश्रुविमिश्रलोचना, मरुदेवा व्यलपत्तरा मिति ॥११॥ क्क तदाऽऽतपवारणं पुरा, मम सूनोः शिरसीन्दुसुन्दरम् ? । अधुना व दवानलोल्वणं, तपचण्डं तैपनांशुमण्डलम् ? ॥११८॥ क स चामरचारुचालनैश्चलनेत्राकरकंकणक्वणः । श्रवसोरधुना सुतस्य मे, मशकश्रेणिगुणत्कृतिः क सा ? |११९॥ क पुरा रथवारणादिभिः सुखयानानि ममाङ्गजन्मनः । अधुना क पदातिचारिता, चरणत्राणमृते विहारिणः ॥१२०॥ मणिपञ्चमुखासने सुखा-सनमन्तः, सदनं क तस्य तत् ? । क निरासनता बनान्तरे, गिरिशीर्षे निरतस्य साम्प्रतम् ॥१२॥ क तदस्य सदैव देवतोपहृताहारजलोपजीवनम् । क स सम्प्रति भैक्ष्यसम्भृता-भ्यवहारस्तदसम्भवोऽपि वा ॥१२२॥ श्रवणामृतवर्षणं क्व तन्-मृदुगीतं शयने घुसुझुवाम् । क्क वनेऽस्य सुतस्य साम्प्रतं श्रुतिसूचीघनघूकयूत्कृतिः॥१२३॥ स्तनयित्नुकृतं संपात्ययो–खुरधाराजलमुलवणानिलम् । सहते स तमस्विनीषु ही, गिरिसंगी गजवन्ममाङ्गजः ॥१२४॥ १ छत्रम् । २ सूर्यमण्डलम् । ३ कर्णयोः। ४ गणगणाटशब्दः । ५ उपानद्विना । ६ देवाङ्गनानाम् । ७ कर्णयोः सूचीतुल्या । ८ मेघकृतम् । ९ वर्षाकाले। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy